SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उपमिती पीठबन्धः ॥७२॥ अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्येते, धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते, अतोऽर्थकामार्थिभिः पुरुषैः पर- धर्मत्य मार्थतो धर्म एवोपादातुं युक्तः तस्मात्स एव प्रधान इति । यद्यप्यनन्तज्ञानदर्शनवीयोनन्दात्मकजीवस्वरूपावस्थानलक्षणश्चतुर्थोऽपि मोक्षरूपःपरूषार्थता पुरुषार्थो निःशेषक्लेशराशिविच्छेदरूपतया स्वाभाविकस्वाधीनानन्दात्मकतया च प्रधान एव, तथाऽपि तस्य धर्मकार्यत्वात् तत्प्राधान्यवर्णने- तात्विकी नापि परमार्थतः तत्सम्पादको धर्म एव प्रधानः पुरुषार्थ इति दर्शितं भवति, तथा चाभ्यधायि भगवता-"धनदो धनार्थिनां धर्मः, का| मिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १॥” इति नातः प्रधानतरं किञ्चिदस्तीत्युच्यते-धर्माख्यः पुरुषार्थोऽयं, प्र धान इति गम्यते । पापप्रस्तं पशोस्तुल्यं, धिग् धर्मरहितं नरम् ॥ १॥ तदिदमाकर्ण्य स जीवोऽभिदधीत-भगवन् ! एतौ तावदर्थकामौ |साक्षादुपलभ्येते, योऽयं पुनर्भगवद्भिर्धर्मो वर्णितः स नास्माभिः कचिदृष्टः, ततो निदर्यतामस्य यत्स्वरूपमिति । ततो धर्मसूरिराचक्षीतभद्र ! मोहान्धाः खल्वेनं न पश्यन्ति, विवेकिनां पुनः प्रत्यक्ष एव धर्मः, तथाहि-“सामान्येन तावद्धर्मस्य त्रीण्येव रूपाणि द्रष्टव्यानि "भवन्ति, तद्यथा-कारणं स्वभावः कार्य च, तत्र सदनुष्ठानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनाश्रवश्च, |"तत्र साश्रवो जीवे शुभपरमाणूपचयरूपः, अनाश्रवस्तु पूर्वोपचितकर्मपरमाणुविलयमावलक्षणः, स एष द्विविधोऽपि धर्मस्वभावो योगि"भिदृश्यते, अस्मादृशैरप्यनुमानेन दृश्यत एव, कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषाः तेऽपि प्रतिप्राणि प्रसिद्धतया परिस्फुटतरं "दृश्यन्त एव, तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव तृतीयं "धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत-सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान् वर्षति पर्जन्य इति, स्व-ला ॥७२॥ "भावस्तु यः साश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः, यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः, स एष द्विविधोऽपि स्व Jain Educat i onal For Private & Personel Use Only Marjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy