________________
उपमिती पीठबन्धः
॥७२॥
अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्येते, धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते, अतोऽर्थकामार्थिभिः पुरुषैः पर- धर्मत्य मार्थतो धर्म एवोपादातुं युक्तः तस्मात्स एव प्रधान इति । यद्यप्यनन्तज्ञानदर्शनवीयोनन्दात्मकजीवस्वरूपावस्थानलक्षणश्चतुर्थोऽपि मोक्षरूपःपरूषार्थता पुरुषार्थो निःशेषक्लेशराशिविच्छेदरूपतया स्वाभाविकस्वाधीनानन्दात्मकतया च प्रधान एव, तथाऽपि तस्य धर्मकार्यत्वात् तत्प्राधान्यवर्णने- तात्विकी नापि परमार्थतः तत्सम्पादको धर्म एव प्रधानः पुरुषार्थ इति दर्शितं भवति, तथा चाभ्यधायि भगवता-"धनदो धनार्थिनां धर्मः, का| मिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १॥” इति नातः प्रधानतरं किञ्चिदस्तीत्युच्यते-धर्माख्यः पुरुषार्थोऽयं, प्र
धान इति गम्यते । पापप्रस्तं पशोस्तुल्यं, धिग् धर्मरहितं नरम् ॥ १॥ तदिदमाकर्ण्य स जीवोऽभिदधीत-भगवन् ! एतौ तावदर्थकामौ |साक्षादुपलभ्येते, योऽयं पुनर्भगवद्भिर्धर्मो वर्णितः स नास्माभिः कचिदृष्टः, ततो निदर्यतामस्य यत्स्वरूपमिति । ततो धर्मसूरिराचक्षीतभद्र ! मोहान्धाः खल्वेनं न पश्यन्ति, विवेकिनां पुनः प्रत्यक्ष एव धर्मः, तथाहि-“सामान्येन तावद्धर्मस्य त्रीण्येव रूपाणि द्रष्टव्यानि "भवन्ति, तद्यथा-कारणं स्वभावः कार्य च, तत्र सदनुष्ठानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनाश्रवश्च, |"तत्र साश्रवो जीवे शुभपरमाणूपचयरूपः, अनाश्रवस्तु पूर्वोपचितकर्मपरमाणुविलयमावलक्षणः, स एष द्विविधोऽपि धर्मस्वभावो योगि"भिदृश्यते, अस्मादृशैरप्यनुमानेन दृश्यत एव, कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषाः तेऽपि प्रतिप्राणि प्रसिद्धतया परिस्फुटतरं "दृश्यन्त एव, तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव तृतीयं "धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत-सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान् वर्षति पर्जन्य इति, स्व-ला
॥७२॥ "भावस्तु यः साश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः, यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः, स एष द्विविधोऽपि स्व
Jain Educat
i onal
For Private & Personel Use Only
Marjainelibrary.org