SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपमितौ “यानतिलयति महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति दैन्योद्वेगशोकाद्युपहतचित्ततया घोरमहा- धर्मस्य पीठबन्धः 18"नरकाकारं सन्तापं स्वीकुरुते ततश्चैवं समस्तदोषभाजनतया लोकैः पापिष्ठोऽयमिति निन्द्यते, अन्यच-द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धि- पुरुषार्थता "पौरुषपराक्रमयोनिःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृषि पाशुपाल्यं वाणिज्यं राजादिसेवामन्यद्वा तातात्त्विकी ॥७१॥ "तदर्थ कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते, किन्तर्हि ?, पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्या"पत्त्या प्रत्युत निःशेषयति ?, अन्यच्चेदमपि चिन्तनीयं, यदुत-द्वयोरेव पुरुषयोनिरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः कचिदुपनमन्ते, "तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते ? येन "वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति । न ह्येवंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं | "किश्चिद्भवितुमर्हति, यदि पुनरकारणा एवंविधा विशेषा भवेयुः ततः सर्वदा भवेयुः यथाऽऽकाशं, न वा कदाचिद्भवेयुर्यथा शशविषाणा "दयो, यतश्चैते कचिद्भवन्ति कचिन्न भवन्ति तस्मान्नैते निष्कारणा इति गम्यते”। अत्रान्तरे गृहीतार्थः स जीवो ब्रूयात्-भगवन् ! किं पुनरेतेषामुत्पादकं कारणं?, ततो धर्मगुरवो वदेयुः-भद्राकर्णय "समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्गं कारणं भ| "वति, स एव हि भगवानेनं जीवं सुकुलेषुत्पादयति निःशेषगुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति उपनतभोगाननवरतं | "भोजयति अन्यांश्च समस्तशुभविशेषान् संपादयति, तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म एवान्तरङ्गं कारणं, स एव हि | "दुरन्तोऽमुं जीवं दुष्कूलेपूत्पादयति निःशेषदोषनिवासता प्रापयति सर्वव्यवसायानस्य विफलयति उपनतभोगोपभोगविन्नभूतं शक्तिवै-1 "कल्यं जनयति अपरांश्चामनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते, तस्माद्यद्बलेनैताः समस्तसम्पदः स एव धर्मः प्रधानः पुरुषार्थः” Jain Educat onal For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy