________________
उपमितौ पीठबन्धः
ख्यिः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥ १॥” तदेतदाचार्यवदनविनिर्गतमर्थवर्णनमनुश्रुत्य स जीवश्चिन्तयेत्-अये! शोभनः प्रस्तावः प्रारब्धः कथयितुं, ततोऽवहितः शृणुयात् , शृण्वन् बुध्येत, बुध्यमानः स्वबोधसूचनार्थ ग्रीवां चालयेत् , लोचने विस्फारयेत् , वदनं विकाशयेत् , चारु चारूक्तमिति शनैः शनैरभिदध्यात् , ततस्तैर्लिङ्गैः संजातमस्य श्रवणकुतूहलमिति भगवन्तो धर्मगुरवस्तं लक्षयेयुः, ततः सादरतरं पुनस्ते ब्रूयुः-भो भो लोकाः! काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि- कामपुरु| "न खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरीकताऽऽचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते, किं च-अर्थनिचयस्य षार्थतो "कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव वस्तुतः परमं फलं, कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रियते ?, अन्यञ्च-कामासे- दितिः "वनप्रवणचेतसा पुरुषाणां तत्सम्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते, संपद्यन्ते भोगिनां भोगा इति गोपालबा"लाबलादीनामपि सुप्रसिद्धमिदं, अपि च-स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैरदयोपगृहनं, | "न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥१॥अतः किन्न पर्याप्तं तेषां ?, तस्मात्काम एव प्रधानः पुरुषार्थः । अत एवाभिहितम्-कामाख्यः “पुरुषार्थोऽयं, प्राधान्येनैव गीयते । नीरसं काष्ठकल्पं हि, धिक्कामविकलं नरम् ॥ १॥” तदेतदाकर्ण्य स जीवो हर्षप्रकर्षेण स्वहृदयादप्युत्कलितः प्रकाशमेवं ब्रूयात्-साधु साधूदितं भट्टारकैः, बहोः कालादद्य सुन्दरं व्याख्यानमारब्ध, यद्येवं दिने दिने कथयथ ततो वय-| |मक्षणिका अपि सन्तोऽवहितचित्ततयाऽऽकर्णयाम इति । तदेतद्धर्मगुरुभिः स्वसामध्येन तस्य जीवस्य मुखमुद्घाटितमित्यवगन्तव्यं, एवं च | वदति तस्मिन् जीवे धर्मगुरूणामिदं मनसि वर्त्तते, यदुत-पश्यताहो महामोहविजृम्भितं, यदेते तदुपहताः प्राणिनः प्रसङ्गकथितयोरप्य-ला ॥६९।। र्थकामकथयो रज्यन्ते, न पुनर्यनतोऽपि कथ्यमानायां धर्मकथायां, तथाहि-इहास्माभिरर्थकामप्रतिबद्धचेतसां क्षुद्रप्राणिनामभिप्रायो व-13
Jain Educa
t ional
For Private & Personel Use Only
L
ainelibrary.org