________________
-50-13%
अर्वाक साम्य
क्त्वाद्दशा
R
उपमितौ है भूतचित्तश्च तं पुरुषं तद्बाहितया पुनः पुनः शङ्कते, ततो नंष्टुमभिलषति' तदिहापि सम्भवतीत्यवगन्तव्यं, तथाहि-यावदेषोऽद्यापि जीवः पीठबन्धः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं नाधिगमजसम्यग्दर्शनमाप्नोति तावद्व्यवहारतः श्रुतमात्रप्राप्तावपि स्वल्पविवेकतयाऽस्यात्र
धनविषयकलत्रादिके कदन्नकल्पे परमार्थबुद्धिर्न व्यावर्तते, तदभिभूतचेतनश्च स्वचित्तानुमानेनातिनिःस्पृहहृदयानपि मुनिपुङ्गवान्मामेते प्रत्यासन्नवतिनं किञ्चिन्मृगयिष्यन्त इत्येवं मुहुर्मुहुराशङ्कते, ततस्तैः सह गाढपरिचयं परिजिहीर्षन् न तत्समीपे चिरं तिष्ठतीति । यत्पुनरभिहितं यदुत-'स महानसनियुक्तकस्तं द्रमकमजनमाहात्म्येन संजातचेतनमुपलभ्याभिहितवान्–भद्र ! पिबेदमुदकं येन ते खस्थता सम्पद्यते, स तु न जानेऽनेन पीतेन मम किं संपत्स्यत इति शङ्काकुलाकूतस्तत्समस्ततापोपशमकारणमपि तत्त्वप्रीतिकरं तोयं न पातुमिच्छति स्म, ततस्तेन कृपापरीतचित्तेन बलात्कारेणापि हितं विधेयमिति मत्वा खसामर्थेन मुखमुद्घाट्य तस्य तत् सलिलं गालितं, तत-1 |स्तदास्वादनसमनन्तरं तस्य महोन्मादो नष्ट इव शेषरोगास्तानवं गता इव दाहार्तिरुपशान्तेवेतिकृत्वा स्वस्थचित्त इवासी विभाव्यते स्म' तदिदं जीवेऽपि समानमवगन्तव्यं, तत्र यदा गृहीतक्षणं सुसाधूपाश्रयमागच्छन्तं तत्सङ्घटेन संपन्नद्रव्यश्रुतमात्रतया सजातविवेकलवं विशिष्टतत्त्वश्रद्धानविकलं धनविषयादिषु परमार्थदर्शिनं तन्मूर्च्छया सुसाधूनपि तन्मार्गणतया शङ्कमानं अत एव प्रबन्धधर्मकथाऽऽकर्णनं परिहरन्तमेनं जीवमुपलभन्ते धर्मसूरयः तदा तेषां दयालुतया भवेदभिसन्धिः-यदेष विशिष्टतरगुणभाजनं संपद्यते(तां), ततस्ते कचित्समीपवर्तिनं तमवगम्य तस्याकर्णयतोऽन्यं जनमुद्दिश्य सम्यग्दर्शनगुणान् वर्णयन्ति, तस्य च दुर्लभतां प्रख्यापयन्ति, तदङ्गीकुर्वतां स्वर्गापवर्गादिकं फलमुपदर्शयन्ति, इहलोकेऽपि परमचित्तनिर्वाणकारणतां तस्य सूचयन्ति, तदेतत्सर्व सजातचैतन्यस्योदकनिमन्त्रणकल्पं विज्ञेयं, ततोऽसौ सद्धर्मगुरुवचनं निशम्य दोलायमानबुद्धिरेवं चिन्तयेत्-एष श्रमणो बहस्यात्मीयसम्यग्दर्शनस्य गुणजातमुपवर्णयति, केवलं य
॥६७॥
-x
Jain Educat
onal
For Private & Personel Use Only
Marjainelibrary.org