________________
पुनर्बोधा
शेषः किमित्यनुभूयते पारण कार्योपचारादिति । तदेतदाह धर्मचिन्ता भवति, मादृश
उपमितौर विशेषं तद्भाव चोपलक्ष्य वदन्ति च-भद्र ! किं नागम्यते साधूपाश्रये किन्न विधीयते भवताऽऽत्महितं किं विफलीक्रियते मनुष्यभवः पीठबन्धः "किन्न विज्ञायते शुभाशुभविशेषः किमित्यनुभूयते पशुभावो भवता?, वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिध्महे, तदिदं सर्व
|"शलाका जनस्थापनकल्पं विज्ञेयं, सज्ज्ञानहेतुतया कारणे कार्योपचारादिति” । तदेतदाकर्ण्य ततोऽसौ अष्टोत्तराणि विरचयन्नेवं ब्रूयात्-भो भोः श्रमणा ! गाढमक्षणिकोऽहं, न सरति मे भगवत्समीपमागच्छतो, निर्व्यापाराणां हि धर्मचिन्ता भवति, मादृशां पुनरन्यत्र गतानां सीदति कुटुम्बादिकं, न प्रवर्त्तते गृहेतिकर्त्तव्यतेति, न वहति वाणिज्यं, न संपद्यते राजसेवा, विस्तै (सू)रयति कृषिकर्मादिकमिति । तदेतत्समस्तं शिरोधूननमभिधीयते । ततस्तद्वचनमाकर्ण्य करुणापरीतहृदयाः सद्धर्मगुरवो यास्यत्येष वराकोऽकृतपुण्यकर्मा दुर्गतिमित्यतो नोपेक्षणीय इत्यालोच्येत्थमाचक्षीरन्-वत्स! यद्यप्येवं तथापि मदनुरोधेन क्रियतां यदहं वच्मि तद्वचनमेकं, द्रष्टव्यास्त्वयाऽहोरात्रमध्येऽवश्यतयोपाश्रयमागत्य सकृत्साधव इति गृह्यतामभिग्रहो, नान्यदहं किश्चिदपि भवन्तं भणिष्यामि, ततोऽसौ का गतिः प्रतिवेशे (पूतप्रदेशे) पतित इत्यालोच्य तमभिग्रहं गृह्णीयात् , तदिदं सद्गुरुवचनप्रतिपत्तिकरणं प्राग्वल्लोचनाजनपातनतुल्यं बोद्धव्यं, ततस्तत्प्रभृति तदुपाश्रयं गच्छतः प्रतिदिनं सुसाधुसंपर्केण तेषां निष्कृत्रिमानुष्ठानदर्शनेन निस्पृहतादिगुणानालोकयतो निजपापपरमाणुदलँनेन च तस्य या विवेककला संपद्यते
सा नष्टा सती चेतना पुनरागता इत्यभिधीयते, यत्तु भूयो भूयो धर्मपदार्थजिज्ञासनं तन्नयनोन्मीलनकल्पं विज्ञेयं, यस्तु प्रतिक्षणमज्ञान| विलयः स नेत्ररोगबाधोपशमतुल्यो मन्तव्यः, यः पुनर्बोधसद्भावे मनाक चित्ततोषः स विस्मयकारोऽवगन्तव्यः । यथा च तावति व्यतिकरे सम्पन्नेऽपि यत्तस्य द्रमकस्य तद्भिक्षारक्षणलक्षणमाकूतं बहुकालाभ्यस्ताभिनिवेशेन प्रवर्त्तमानं न निःशेषतयाऽद्यापि निवर्त्तते, तद्वशी
१ व्याजोत्तराणि । नष्टोत्तराणि प्र. २ गृहसंपूर्णकार्याणि. ३ महत्प्रयत्नसाध्यं जायते. ४ आधीनतायां. ५ °कलय्य प्र. ६ विज्ञेयं प्र. ७ लयन् प्र.
Jain Educati
o nal
For Private Personel Use Only
Conjainelibrary.org