SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ६५ ॥ Jain Educat देश्यं मिध्यात्वमुद्दलयतीति, चारित्रं पुनरत्र परमान्नमवगन्तव्यं, तस्यैव सदनुष्ठानं धर्मः सामायिकं विरतिरित्यादयः पर्यायाः, तदेव मोक्षलक्षणमहाकल्याणान्यवहितकारणतया महाकल्याणकमिति गीयते, तदेव च रागादिमहान्याधिकदम्बकं समूलघातं हन्ति, तदेव च वर्णपुष्टिधृतिबलमनःप्रसादौर्जित्यवयः स्तम्भसवीर्यतातुल्यानात्मगुणान् समस्तानाविर्भावयति, तथाहि तज्जीवे वर्त्तमानं प्रभवो धैर्यस्य कारणमौदार्यस्याऽऽकरो गाम्भीर्यस्य शरीरं प्रशमस्य स्वरूपं वैराग्यस्यातुलहेतुर्वीर्योत्कर्षस्य आश्रयो निर्द्वन्द्वतायाः कुलमन्दिरं चित्तनिर्वाणस्य उत्पत्तिभूमिर्दयादिगुणरत्नानां किं चानेन ?, यत्तदनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णमक्षयमव्ययमव्याबाधं धाम तदपि तत्सम्पाद्यमेवेत्यतोऽजरामरत्वमपि तज्जनयतीत्युच्यते, तस्मादेनमनेन ज्ञानदर्शनचारित्रत्रयेण सम्यगुपक्रम्य जीवं किष्टकर्मकलाजालान्मोचयामीति सद्धर्मगुरुरपि चित्तेऽवधारयति । ततो यथा तेन रसवतीपतिना 'शलाकाग्रे तदञ्जनं विन्यस्य तस्य द्रमकस्य गाढमाधूनयतो ग्रीवामञ्जिते लोचने, तदनन्तरमेव तेन प्रह्लादकतया शीततयाऽचिन्त्यगुणयोगितया चाञ्जनस्य पुनश्चेतना लब्धा, ततश्चोन्मीलितं चक्षुः, प्रशान्ता मनाङ् नेत्रबाधा, विस्मितेन च तेन किमेतदिति चिन्तितं' तदत्रैवं योजनीयं - यदाऽयं जीवः प्रथमं प्रतिपद्य भद्रकभावं रोचयित्वा भगवच्छासनं नमस्कृत्त्यार्हद्विम्बानि पर्युपास्य साधुलोकं विधाय धर्मपदार्थजिज्ञासां कृत्वा दानादिप्रवृत्तिमुत्पाद्य धर्मगुरूणामात्मविषयां पात्रबुद्धि पुनः क्लिष्टकर्मोदयेन विस्तरधर्मदेशनादिकं किञ्चिन्निमित्तमासाद्य परिभ्रष्टपरिणामो भवति, ततश्च न गच्छति चैत्यालये नाऽऽलीयते साधूपाश्रये न वन्दते दृष्टमपि साधुलोकं नामन्त्रयति श्रावकजनं निवारयति स्वगृहे दानादिप्रवृत्तिं पलायते दूरदृष्टेभ्योऽपि धर्मगुरुभ्यः | विधत्ते पृष्ठतस्तदवर्णवादादिकं, ततस्तं तथाभूतं नष्टविवेकचेतनमवगम्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपाया खनं निदधते, कथं ?, बहिर्भूम्यादौ कथश्चिदकाण्डदृष्टस्य कुर्वन्ति प्रियसंभाषणं दर्शयन्ति हितबुद्धिं प्रख्यापयन्त्यावसभावं उत्पादयन्त्यविप्रतारकप्रत्ययं पुरुष ational For Private & Personal Use Only विमला लोकतत्त्व प्रीतिकर महाक ल्याणक भेषजत्रयम् ॥ ६५ ॥ w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy