SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥६४॥ रोरो नीरोगः स्यात् ?, ततो मनसि निरूपयता तेन पुनः पर्यकल्पि, अये विद्यत एवास्य रोगनिराकरणोपायः, यतोऽस्ति मम चारु भेष- विमला जत्रितयं, तद्यथा-एक तावद्विमलालोकं नाम परमाजनं, तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगान्नाशयति, सूक्ष्मव्यवहितातीतभावि- लोकतान्त्वभावविलोकनदक्षं चक्षुः संपादयति, तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं वि- प्रीतिकर धत्ते, दृष्टेश्चाविपरीतार्थग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम पर- महाकमान्नं, एतत्पुनः सम्यङ् निषेव्यमानं निःशेषरोगगणं समूलकाष कषति तथा पुष्टिं जनयति धृतिं वर्धयति बलमुज्वलयति वर्णमुत्कर्ष-18 ल्याणक यति मनःप्रसादं संपादयति वयस्तम्भं विधत्ते सवीर्यतां करोति और्जित्यं प्रवणयति, किम्बहुना ?, अजरामरत्वमपि निःसन्देहमेतत्स- भेषजत्रयम् निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपखिनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापितः । तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः, केवलं प्रबलकर्मकलाss-18 कुलितचेताः सन्मार्गात्परिभ्रष्टः, तदा भवति गुरोरयमभिप्रायः यथा-कथं पुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते?, पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रयं भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते, नापरः, तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते, तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति, दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेव जीवादिपदार्थगोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते ॥६४॥ तेन समस्तगदतानवकारक, कर्मणामिह रोगकरूपत्वात् , तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माद-12 Jain Educatholiminational For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy