________________
उपमितौ पीठबन्धः
मित्येवं कदन्नकल्पधनविषयकलत्रादिके मूर्च्छितहृदयस्तत्संरक्षणप्रवणोऽयं जीवः सदुपदेशदायकान् महामोहवशगो वञ्चकत्वेन कल्पयन् रौद्र-18 ध्यानमापूरयति, ततो नष्टविवेकचेतनस्तैः सद्धर्माचार्यैरूभंकारनिखातकाष्ठकीलककल्पो लक्ष्यते, अत एव च तेषां सम्बन्धिन्या दयया | | दीयमानं तदानीं सुन्दरपरमान्नकल्पं सदनुष्ठानोपदेशं वराकोऽयं जीवो न जानीते, न चेतः परं विवेकिनां विस्मयकरमस्ति, यदेष जीवो हा महानरकगर्त्तपातहेतौ धनविषयादिके गृद्धात्माऽनन्तसुखमोक्षाक्षेपकारणं सदनुष्ठानं सद्गुरुदयोपनीतमवधीरयति । यथा च तेन महानसनि-|
युक्तकेन तत्तथाभूतमसंभाव्यं व्यतिकरमवलोक्य चिन्तितं यदुत-'किं पुनरेष रोरो दीयमानमादरेणेदं परमान्नं न गृह्णाति, नूनमयमस्य देशकखेदः | पापोपहतात्मतया न योग्य इति तदत्रापि तुल्यं विज्ञेयं, तथाहि-सद्गुरूणामपि तं तथाविधं विस्तरधर्मोपदेशनयाऽन्यथा वा विनष्टभद्र-| कभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्भूतो भावो यदुत-न भाजनमेषोऽकल्याणभाजनतया भगवद्धर्मस्य, नोचितो कुंगतिगामि-| तया सुगतिगमनस्य, न परिकर्मणीयो दुर्दलकल्पतया सद्धर्मचेतसां, ततोऽत्र मोहोपहतचेतसि विफलो मे परिश्रम इति । यथा च पुन-| विमृशता तेन रसवतीपतिना निश्चितं यदुत-'नास्य वराकस्यायं दोषः, यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इतिकृत्वा वेदनाविह्वलो न किञ्चिच्चेतयते, यदि पुनरेष नीरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति सोऽमृतास्वादमेतत्परमान्नं दीयमानं कथं न गृह्णीयादिति' तदेतदाचार्यस्यापि पर्यालोचयतो मनसि वर्त्तत एवेति, यदुत-यदेष जीवो गृध्यति विषयादिषु गच्छति कुमार्गेण नादत्ते । दीयमानं सदुपदेशं नैषोऽस्य वराकस्य दोषः, किं तर्हि ?, मिथ्यात्वादीनां भावरोगाणां, तैर्विसंस्थुलचेतनोऽयं न किञ्चिज्जानीते, यदि | पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवर्तेत ?। यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा-कथं पुनरेष
॥६३॥. १°धर्मदेश. २ नरक.
MASALAMGARLOCALCOROSCOROS
Jain Educati
o
nal
For Private & Personel Use Only
Harjainelibrary.org