SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः मित्येवं कदन्नकल्पधनविषयकलत्रादिके मूर्च्छितहृदयस्तत्संरक्षणप्रवणोऽयं जीवः सदुपदेशदायकान् महामोहवशगो वञ्चकत्वेन कल्पयन् रौद्र-18 ध्यानमापूरयति, ततो नष्टविवेकचेतनस्तैः सद्धर्माचार्यैरूभंकारनिखातकाष्ठकीलककल्पो लक्ष्यते, अत एव च तेषां सम्बन्धिन्या दयया | | दीयमानं तदानीं सुन्दरपरमान्नकल्पं सदनुष्ठानोपदेशं वराकोऽयं जीवो न जानीते, न चेतः परं विवेकिनां विस्मयकरमस्ति, यदेष जीवो हा महानरकगर्त्तपातहेतौ धनविषयादिके गृद्धात्माऽनन्तसुखमोक्षाक्षेपकारणं सदनुष्ठानं सद्गुरुदयोपनीतमवधीरयति । यथा च तेन महानसनि-| युक्तकेन तत्तथाभूतमसंभाव्यं व्यतिकरमवलोक्य चिन्तितं यदुत-'किं पुनरेष रोरो दीयमानमादरेणेदं परमान्नं न गृह्णाति, नूनमयमस्य देशकखेदः | पापोपहतात्मतया न योग्य इति तदत्रापि तुल्यं विज्ञेयं, तथाहि-सद्गुरूणामपि तं तथाविधं विस्तरधर्मोपदेशनयाऽन्यथा वा विनष्टभद्र-| कभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्भूतो भावो यदुत-न भाजनमेषोऽकल्याणभाजनतया भगवद्धर्मस्य, नोचितो कुंगतिगामि-| तया सुगतिगमनस्य, न परिकर्मणीयो दुर्दलकल्पतया सद्धर्मचेतसां, ततोऽत्र मोहोपहतचेतसि विफलो मे परिश्रम इति । यथा च पुन-| विमृशता तेन रसवतीपतिना निश्चितं यदुत-'नास्य वराकस्यायं दोषः, यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इतिकृत्वा वेदनाविह्वलो न किञ्चिच्चेतयते, यदि पुनरेष नीरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति सोऽमृतास्वादमेतत्परमान्नं दीयमानं कथं न गृह्णीयादिति' तदेतदाचार्यस्यापि पर्यालोचयतो मनसि वर्त्तत एवेति, यदुत-यदेष जीवो गृध्यति विषयादिषु गच्छति कुमार्गेण नादत्ते । दीयमानं सदुपदेशं नैषोऽस्य वराकस्य दोषः, किं तर्हि ?, मिथ्यात्वादीनां भावरोगाणां, तैर्विसंस्थुलचेतनोऽयं न किञ्चिज्जानीते, यदि | पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवर्तेत ?। यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा-कथं पुनरेष ॥६३॥. १°धर्मदेश. २ नरक. MASALAMGARLOCALCOROSCOROS Jain Educati o nal For Private & Personel Use Only Harjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy