SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपमितीचतुष्पदवर्ग भव बुद्धधर्मसङ्घशरणः, एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीयेवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्त-12 मिथ्यापीठबन्धः भिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदीयसर्वस्वं लातुमभिकाङ्कति । यद्वा क्रियता सङ्घभक्तं भोज्यन्तामृषयो दीयन्तां सुन्दरखा- हत्त्वे द्यानि उपनीयन्तां मुखक्षेपणानि दानमेव गृहस्थस्य परमो धर्मः तत एव संपद्यते संसारोत्तारः इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो विकल्पा: दिगम्बर इव मदीयधनमेष श्रमणो निर्वाहयिष्यति । अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपञ्चकथनरूपोऽत्यादरः स्यात् ?, तदिदमिह तत्त्वं –तावदेवते सुन्दराः श्रमणाः यावन्नोपलभ्यन्ते यावच्चैतेषां न वशवर्तिभिर्भूयते, वशवर्त्तिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यते मायाविनो नानावचनरचनया विप्रतार्य मदीयसर्वस्खमपहरन्ति, नास्त्यत्र सन्देहः, ततो मयाऽधुनाऽनेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि, किमदत्तप्रतिवचनः समुत्थाय गच्छामि ? उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि ? आहोखिचौरहरणादिभिः प्रलीनं मे द्रव्यजातं नास्त्येवाधुना किञ्चिद्यत् दीयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि ? उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनर्मह्यं किश्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि ? किं वा अकाण्डकथनजनितक्रोधसूचिकां भृकुटी जनयामीति?, न जाने कथमेष श्रमणो मद्वञ्चनप्रवणमना निवास्माहुरध्यवसायान्मम मोक्षं दास्यतीति?, न पुनरसौ वराको गाढमूढात्मतया खल्वेतल्लक्षयति यथा-"एते भग| "वन्तः सद्धर्माचार्या विदिततुषमुष्टिनिःसारसंसारगर्भार्था अतुलसन्तोषामृततृप्तान्तःकरणा अवगतविषयविषविषमविपाका मोक्षकाकतानेन | "चेतसा सर्वत्र समवृत्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गोपदेशदाने प्रवर्त्तमानाः सन्तो न देवेन्द्रद्रमकयोर्विशेष लक्षयन्ति न महर्द्धिविबुध"निर्द्धनपुरुषयोविभागं कल्पयन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानादराभ्यां विवर्त्तन्ते, समानमेषां चे- ॥६१॥ १रचंयामीति प्र. देशक स्वरूप उ.भ.६ Jain Educati o nal For Private & Personel Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy