SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उपमितौयावदहं पूर्व धर्माधर्मविचारपर्येषणां नाकर्ष तावदेते श्रमणाः कचिदुपलभ्यमाना अपि न मम वार्तामपि पृष्टवन्तो, यद्यपि तत् कथञ्चित् थ्यात्वामिपीठबन्धः कचिदवसरे मां धर्मगोचरं किञ्चिद् ब्रूयुः तथाऽप्यनादरेण वचनं वा द्वेषेण वा, इदानीं पुनर्मा धर्माधर्मजिज्ञासापरमवगम्य गतोऽयमस्माक- वृतजन्तोः मादेशगोचरमिति मत्वा स्वगलतालुशोषमवगणय्योच्चैर्ध्वनिना महता वचनरचनाटोपेन स्वयमदृष्ट एवैष लोकप्रकाशः श्रमणो मम पुरतो कुविकल्पाः धर्मगुणानुपवर्णयति मां चाक्षिप्तचित्तमुपलभ्य दानं दापयति शीलं ग्राहयति तपश्चारयति भावनां भावयति, तदियतोऽकाण्ड एव स्फुटाटोपस्यास्य हन्त को गर्भार्थः?, आ ज्ञातम् , अस्ति मे सुन्दरकलत्रसङ्ग्रहः विद्यते नानाकारो द्रविणनिचयः सम्भवति भूरिरूपो धान्य-14 प्रागभारः समस्ति सम्पूर्ण चतुष्पदकुप्यादिकं, नूनं तत् ज्ञातमेतेन, तदेषोऽत्र तात्पर्यार्थो यदुत-दीक्षा ते दीयते रजस्ते पात्यते बीजदाहस्ते क्रियते कुरु लिङ्गपूरणं विधेहि गुरुपादपूजनं निवेदय स्वकलनधनकनकादिकं समस्तसर्वखं गुरुपादेभ्यः, पुनस्तैरनुज्ञातं अनुभवितेतस्त्वमेवं विदधानः पिण्डपातेन शिवीभविष्यसीत्येवं वचनरचनया विप्रतार्य शैवाचार्य इव मामेष श्रमणको मुमुषति यदिवा भूरिफलं सुवर्णदानं महोदयं गोदानमक्षय्यं पृथिवीदानं अतुलं पूर्तधर्मकरणमनन्तगुणं वेदपारगे दानं, यदि पुनर्गौर्विज्ञायमाना निर्गतवत्सखुरमुखा सचेला कनकशृङ्गी रत्नमण्डिता सोपचारा द्विजेभ्यो दीयते ततश्चतुरुदधिमेखला सग्रामनगराकरा सशैलकानना पृथिवी तेन दत्ता भवति, सा चाक्षय्यफला संपद्यते, इत्येवं मुग्धजनवञ्चनपरैः कूटश्लोकरचितग्रन्थैर्मा विप्रलभ्य द्विजातिरिव नूनमेष श्रमणो मे द्रविणजातं जिहीपति, अथवा कारय रमणीयतरान् विहारान् वासय तेषु बहुश्रुतान् पूजय सवं प्रयच्छ भिक्षुभ्यो दक्षिणां मीलय सङ्घसम्बन्धिनि कोशे स्वीयं द्रविणजातं निक्षिप सङ्घसम्बन्धिन्येव कोष्ठागारे स्वधान्यसञ्चयं समर्पय सङ्घसम्बन्धिन्यामेव संज्ञातौ स्वकीयं १ दानं हस्ते. Jain Educat i onal For Private & Personel Use Only Shw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy