SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ उपमिती पीठबन्धः कुविकल्प नाशः तोऽस्य जीवस्य ते पूर्वमनादिकुवासनाजनिताः कुविकल्पाः प्रवर्त्तन्ते स्म, यदुत-'अण्डसमुद्भूतमेतत्रिभुवनं यदिवेश्वरनिर्मितं ब्रह्मा-16 | "दिकृतं वा प्रकृतिविकारात्मकं वा यदिवा प्रतिक्षणविनश्वरं वा पञ्चस्कन्धात्मकोऽयं जीवः पञ्चभूतात्मको वा विज्ञानमात्रं चेदं सर्व “शून्यरूपं वा, न विद्यते वा कर्म, महेश्वरवशादिदं सर्व नानारूपं वर्त्तत इत्यादयः,” ते सर्वेऽपि भीममहायोधदर्शनात्संग्रामशिरसि प्रत्यनीककातरनरा इव निवर्त्तन्ते, ततश्चायं तदा जीवो मन्यते यदेते महात्मानो मह्यं कथयन्ति तत्सर्वमुपपद्यते, मत्तोऽधिकतरं परीक्षितुं वस्तुतत्त्वमेत एव जानन्ति, ततश्च यदुक्तं कथानकं कथयता यदुत-'कदर्थनार्थमायाताः, पश्चालग्नाः सुदारुणाः । दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ॥ १८५ ॥ तदपि योजितं विज्ञेयं, यतः कुविकल्पा एव दुन्तिडिम्भाः, त एव जीवं कदर्थयन्ति, तन्निवृत्तिश्च सुगुरुसम्पर्केणेति, तदेवमपगतेषु सकलेषु कुविकल्पेषु यदाऽयं जीवः सद्धर्मगुरूणां तद्वचनाकर्णनस्पृहया मनागभिमुखो भवति तदा ते परहितकरणैकव्यसनितया सन्मार्गदेशनां कुर्वाणाः खल्वेवमाचक्षते यदुत-"आकर्णय भो भद्र! संसारे पर्यटतोऽस्य जीवस्य धर्म एवाति| "वत्सलहृदयः पिता धर्म एव गाढस्नेहबन्धुरा जनयित्री धर्म एवाभिन्नहृदयाभिप्रायो भ्राता धर्म एव सदैकस्नेहरसवशा भगिनी धर्म "एव समस्तसुखखानीभूताऽनुरक्ता गुणवती भार्या धर्म एव विश्वासस्थानभेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं धर्म एव सुरकुमा"राकारधारकश्चित्तानन्दातिरेकहेतुस्तनयः धर्म एव शीलसौन्दर्यगुणलब्धजयपताकाकुलोन्नतिनिमित्तभूता दुहिता धर्म एवाव्यभिचारी "बन्धुवर्गः धर्म एव विनीतः परिकरः धर्म एव नरेश्वरता धर्म एव चक्रवर्तित्वं धर्म एव विबुधभावः धर्म एवामरेश्वरता धर्म एव "वनाकारो लावण्यापकर्णितभुवनो जरामरणविकारविकलः कायः धर्म एवं समस्तशास्त्रार्थशुभशब्दग्रहणचतुरं श्रोत्रं धर्म एव भुवनालो| "कनक्षमे कल्याणदर्शने लोचने धर्म एव मनःप्रमोदहेतवोऽनयेया रत्नराशयः धर्म एव चित्ताहादविधायिनो विषघातनाद्यष्टगुणोपेताः सन्मार्गदेशना ॥५७॥ PA lain Education international For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy