SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सदुपदेशः ___ उपमितौ , नरेन्द्रावलोकनादेवोत्तरोत्तरक्रमेण संभवत्कल्याणपरम्परः कालान्तरेण वस्तुतत्त्वं प्रतिपत्स्यते खल्वेष, नास्त्यत्र सन्देह इति तथा सद्धर्मगुरवो- पीठबन्धः Pऽपि परमात्मावलोकनां जीवे विनिश्चित्य तस्य भविष्यद्भद्रतां विगतसन्देहाः स्वहृदये स्थापयन्त्येव, यथा च 'असौ महानसनियुक्तकस्त ४ इमके महानरेन्द्रावलोकनां निर्णीय तदनुवृत्तिवशेन करुणाप्रवणः सम्पन्नः' तथा जीवेऽपि परमात्मावलोकनामाकलय्य सद्धर्मगुरवस्तदारा॥५६॥ धनपरायणतयैव करुणाप्रवणमानसाः सजायन्ते, तदनुकम्पया तैरपि भगवानाराधितो भवतीत्यर्थः। यत् पुनरभ्यधायि, यथा-'असौ रस-IN वतीपतिः शीघ्रं तत्समीपमादरवशेनाऽऽगच्छत् , गत्वा चैह्येहि भद्र ! दीयते तुभ्यं भिक्षेत्येवं रोरमाकारितवानिति तदेवमिह योजनीयंयदाऽस्य जीवस्य पूर्वोक्तन्यायेनानादौ संसारे पर्यटतः परिपक्का भव्यता क्षीणप्राय लिष्टकर्म स्तोकमास्ते तच्छेषं तेनापि दत्तं रन्ध्र प्राप्ता मनुजभवादिसामग्री दृष्टं सर्वज्ञशासनं संजाता तत्र सुन्दरबुद्धिः प्रवृत्ता मनाक् पदार्थजिज्ञासा समुत्पन्ना कुशलकमलेशबुद्धिः अथ चानुवर्त्तन्तेऽद्यापि पापकलाः, तदेवंविधे भद्रकभावे वर्तमानस्य सञ्जातायां भगवदवलोकनायां सद्धर्माचार्याः प्रादुर्भूततीव्रकरुणापरिणामाः सन्मार्गावतारणार्थ योग्यतां निश्चित्य भावतोऽभिमुखीभवन्ति, तदेतत्तेषां तत्समीपगमनमभिधीयते, सजातप्रसादाश्च कथयन्ति ते तस्मै यथा-'भद्र ! अकृत्रिमोऽयं लोकः अनादिनिधनः कालः शाश्वतरूपोऽयमात्मा कर्मजनितोऽस्य भवप्रपञ्चः तच्चानादिसम्बद्धं "प्रवाहेण मिथ्यात्वादयस्तस्य हेतवः, तत् पुनर्द्विविधं कर्म-कुशलरूपमकुशलरूपं च, यत्तत्र कुशलरूपं तत् पुण्यं धर्मश्चोच्यते, यत् पुन"रकुशलरूपं तत्पापमधर्मश्चाभिधीयते, पुण्योदयजनितः सुखानुभवः, पापोदयसंपाद्यो दुःखानुभवः, तयोरेव पुण्यपापयोरनन्तभेदभिन्नेन "तारतम्येन संपद्यते खल्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति,” ततश्चैवंविधं सद्धर्माचार्यवचनमाकर्णय १ ततोऽसौ प्र. ॥५६॥ Jan Education For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy