________________
उपमितौ
पीठबन्धः
॥ ५५ ॥
Jain Education In
ननाथत्वमक्षेपेण जनयति, तस्मान्नात्र तस्याः सम्भवो लक्ष्यते, यतञ्चास्य सुन्दरमनोवाक्कायप्रवृत्तिलेशो दृश्यते, ततोऽन्यथाऽनुपपत्त्या भगवदवलोकनायाः सद्भावोऽत्र निश्चीयते, तदिदमैलब्धसन्देहविच्छेदकारणं अस्माकं मनो दोलायते किमिदमाश्चर्यमित्याकूते यथा च तेन तात्पर्येण पर्यालोचयता महानसनियुक्तकेन पश्चान्निश्चितं यदुत - 'सम्भवतोऽस्य द्रमकस्य द्वे कारणे महानरेन्द्रावलोकनायाः, तेन युक्तियुक्त एवास्य पारमेश्वरो दृष्टिपातः, तत्र यस्मादेष सुपरीक्षितकारिणा स्वकर्म्मविवरेण द्वारपालेनात्र भवने प्रवेशितः तेनोचित एवायं विशेषष्टेरित्येकं कारणं, तथा यस्यैतद्भवनमालोक्य नरस्य मनःप्रसादो जायते स महानरेन्द्रस्यात्यन्तवल्लभ इति प्रागेव विनिश्चितमिदं मया, संजातश्चास्य मनः प्रसादो लक्ष्यते, यतो नेत्ररोगपीडाभराक्रान्ते अपि लोचने भवनदिदृक्षया प्रतिक्षणमयमुन्मीलयति, तद्दर्शनेन बीभत्स दर्शनमप्यस्य वदनं सहसा प्रसादसम्पत्तेर्दर्शनीयतामासादयति, धूलिधूसराणि चास्य सर्वाङ्गोपाङ्गानि पुलकोद्वेदभाजि दृश्यन्ते, न चैतदन्तर्विवर्त्तमानहर्षव्यतिरेकेण संपद्यते, तस्मादिदमस्य नृपभवनपक्षपातलक्षणं परमेश्वरावलोकनाया द्वितीयं कारणमिति' तदेतत्सर्वं सद्धर्माचार्या अपि जीवविषयं पर्यालोचयन्तः परिकल्पयन्त्येव, तथाहि —यो जीवो हेतुभिर्लक्ष्यते यथा संजातकर्म्मविवरोऽयं तथा भगवच्छासनमुपलभ्य यस्य प्रादुर्भवति मनः प्रसादः स च भगवान् लक्ष्यते प्रतिक्षणं नेत्रोन्मीलनकल्पया जीवादिपदार्थजिज्ञासया विभाव्यते प्रवचनार्थलवाधिगमे विकसितवदनकल्पेन संवेगदर्शनेन निश्चीयते च धूलिधूसरिताङ्गोपाङ्गरोमा भ्वाकारेण सदनुष्ठानलेशप्रवृत्तिविलोकनेन तस्य जीवस्य सम्पन्ना भगवदवलोकनेति निर्णीयते, तस्मादिहापि निश्वयकरणे तदस्त्येव हेतुद्वयं, यदुत - सञ्जातकर्म्मविवरता भगवच्छासनपक्षपातश्चेति । यथा च ' तेन महानसनियुक्तकेन द्रमकगोचरमेतश्चिन्तितं यदुत - यद्यपीदानीमेष रोराकारमाबिभर्त्ति तथाऽपि महा
१० मवलब्धसं० पा.
For Private & Personal Use Only
आचार्येण जीवस्य
योग्यता
परीक्षणं
॥ ५५ ॥
Inelibrary.org