________________
POPL
उपमितौ धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म, तथाहि-सद्ध्यानबलेन विमलीभूतात्मानः परहितैकनिरत- सुरेः (हरिपीठबन्धः चित्ता भगवन्तो ये योगिनः ते पश्यन्त्येव देशकालव्यवहितानामपि जन्तूनां छद्मस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनाया भद्रस्य)स
योग्यतां, पुरोवर्तिनां पुनः प्राणिनां भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति, ये च मम सदुप- दृष्टिपातः ॥५४॥
देशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैर्जातः समस्तोऽपि मदीयवृत्तान्तः, स्वसंवेदनसंसिद्धमे
तदस्माकमिति । यत्पुनः तेन धर्मबोधकरण साकूतमानसेन सता तदनन्तरं चिन्तितं यदुत-किमेतदाश्चर्य मयाऽधुना दृश्यते ?, यतोऽयं 8 सुस्थितो महानरेन्द्रो यस्योपरि विशेषेण दृष्टिं पातयति स पुरुषत्रिभुवनस्यापि द्रागेव प्रभुः सजायत इति सुप्रसिद्धमेतत् , अयं पुनर्योs-15
धुनाऽस्य राज्ञो दृष्टगोचरचारितामनुभवन्नुपलक्ष्यते स द्रमको दैन्योपहतो रोगग्रस्तदेहोऽलक्ष्मीभाजनभूतो मोहोपहतात्माऽतिबीभत्सदर्शनो जगदुद्वेगहेतुस्तत्कथं समस्तदोषराशेरस्य परमेश्वरदृष्टिपातेन सार्द्ध सम्बन्धः?, पौर्वापर्येण विचार्यमाणो न युज्यते, न कदाचनापि दीर्घतर
दौर्गत्यभाजिनां गेहेषु अनर्धेयरत्नवृष्टयो निपतितुमुत्सहन्ते, तत्कथमेतदिति विस्मयातिरेकाकुलं नश्चेतः' तदिदं सर्वमत्रापि जीवविषयं सद्ध-5 सार्माचार्यचेतसि वर्त्तमानं योजनीयं, तथाहि-यदाऽयं जीवो नितरां गुरुकर्मतया प्रागवस्थायां समाचरति समस्तपातकानि भाषते निः-15
शेषासभ्यालीकवचनानि न मुच्यतेऽनवरतं रौद्रध्यानेन, स एव चाकाण्ड एव कुतश्चिन्निमित्ताच्छुभसमाचार इव सत्यप्रियंवद् इव प्रशान्तचित्त इव पुनर्लक्ष्यते, तदा भवत्येव पौर्वापर्यपर्यालोचनचतुराणां विवेकिनां मनसि वितर्को यदुत-न तावत्सुन्दरा मनोवाक्कायप्रवृत्तिः सद्धर्मसाधिका भगवदनुग्रहव्यतिरेकेण कस्यचित्संपद्यते, अयं चेहभव एवातिक्लिष्टमनोवाकायप्रसरोऽवधारितोऽस्माभिः, तदिदं पूर्वापर
॥५४॥ | विरुद्धमिव प्रतिभासते, यतः कथमेवंविधपापोपहतसत्त्वे भगवदवलोकना प्रवर्तते, सा हि प्रवर्त्तमाना जीवस्य मोक्षसम्पादकत्वेन त्रिभुव
Jain Education
For Private & Personel Use Only
CoMainelibrary.org