SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥ ५३ ॥ Jain Educatio कलापोपेतं सकलकालं समन्तान्निरीक्षमाणस्तस्माद्बहिरपि सर्वत्राप्रतिहतदर्शनशक्तिः सततानन्दो लीलया ललमानो महानरेन्द्रो दर्शितः' स इह निष्कलावस्थायां वर्त्तमानः परमात्मा भगवान् सर्वज्ञो विज्ञेयः, स एव यतो मर्त्यलोकापेक्षया उपर्युपरिस्थायिन्यो भूमिकाकल्पाः सप्तरज्जवः तदात्मको यो लोकप्रासादस्तच्छिखरे वर्त्तते, स एव हि परमेश्वरो युगपदमुं समस्तसंसारविस्तारं विचित्रनगरख्यापाराकारमलोकाकाशं च तद्बहिर्भागकल्पं केवलालोकेन करतलगतामलकन्यायेनावलोकयति, स एव चानन्तवीर्यसुखपरिपूर्णतया सततानन्दो लीलया ललते, नापरो, भवगर्त्तमध्यपतितजन्तुलीलाललनस्य परमार्थतो विडम्बनारूपत्वात् । यथा च स कथानकोक्तः 'तेन महाराजेन महारोगभराक्रान्ततया गाढबीभत्सदर्शन इतिकृत्वा करुणया विशेषेणावलोकित इत्युक्तम् तदत्रैवं द्रष्टव्यं - यदाऽयमात्मा निजभव्यतादिपरिपाकवशादेतावतीं कोटिमध्यारूढो भवति तदाऽस्य भवत्येव भगवदनुग्रहः, न तद्व्यतिरेकेण यतो मार्गानुसारिता संपद्यते, तदनुग्रहेणैव भवति भावतो भगवति बहुमानो, नान्यथा, स्वकर्मक्षयोपशमादीनां शेषहेतूनामप्रधानत्वात्, ततोऽयमात्मा तस्यामवस्थायां वर्त्तमानोऽमुमर्थमाकलय्य भगवता विशेषेणावलोकित इत्युच्यते, स एव परमेश्वरोऽचिन्त्यशक्तियुक्ततया परमार्थकरणैकतानतया चास्य जीवस्य मोक्षमार्गप्रवृत्तेः परमो हेतुरित्युक्तं भवति, समस्तजगदनुग्रहप्रवणं हि भगवतो निष्कलमपि रूपमिति परिभावनीयं, केवलं तथापि तत् जीवभव्यतां कर्मकालस्वभावनियत्यादिकं च सहकारिकारणकलापमवेक्ष्य जगदनुग्रहे व्याप्रियते, तेन न यौगपद्येन समस्तप्राणिनां संसारोत्तार इति, आलोचनीयमेतदागमानुसारेणेति, तस्माद्भवत्येव भाविकल्याणस्य भद्रकभावे वर्त्तमानस्यास्य जीवस्य भगवदवलोकना । यथा च 'तां महाराजदृष्टिं तत्र रोरे निपतन्तीं धर्मबोधकराभिधानो महानसनियुक्तो निरीक्षितवानित्युक्तं' तथा परमेश्वरावलोकनां मज्जीवे भवन्तीं धर्मबोधकरणशीलो १ क्षणं कुर्वाणः प्र. २ भावतो पा. tional For Private & Personal Use Only जिनेश्वर स्य नृपता आत्मनि भगवदनुग्रहः ॥ ५३ ॥ Xww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy