________________
उपमिती पीठबन्धः
सद्विचारश्रेणिः
॥५२॥
चिन्तयति वा । यथा च तस्य कथानकोक्तस्य पर्यालोचनपरायणवृत्तेः सतः पुनरिदं परिस्फुरितं, यदुत-येन मया पूर्वमिदं नयनानन्दकारि राजसदनं न दृष्टं, न चास्य दर्शनार्थ कश्चिदुपायः प्राग्विहितः सोऽहं सत्यं निष्पुण्यक एव, कीदृशं राजमन्दिरमिति जिज्ञासामात्रमपि ममाधमस्य कदाचिदपि पूर्व नासीत् , येन चानेन महात्मना स्वकर्मविवरद्वारपालेन कृपापरीतचेतसा भाग्यकलाविकलस्यापि ममेदं दर्शितं सोऽयं मे परमबन्धुभूतो वर्त्तते, एते च धन्यतमा जना येऽत्र राजमन्दिरे सदा निःशेषद्वन्द्वरहिताः प्रमुदितचेतसोऽवतिटन्ते' तदेतदपि समस्तमत्र जीवे योजनीयं, तथाहि-शुभध्यानविशुध्यमानाध्यवसायस्यापि जीवस्य विवर्त्तते चेतसीदं सर्व सर्वज्ञदर्श-४ नगोचरं कचिदवसरे समवसरणदर्शनेन वा जिनस्नात्रविलोकनेन वा वीतरागबिम्बनिरीक्षणेन वा शान्ततपस्विजनसाक्षात्करणेन वा सुश्रावकसङ्गतेन वा तदनुष्ठानप्रतिभासेन वा द्रावितमिथ्यात्वतया मृदूभूतभावस्य, तथाहि-उपपद्यते तदा तद्विचारेणास्य प्रीतिः शोचति प्रागविचारकमात्मानं गृह्णाति मार्गोपदेशकं बन्धुबुद्ध्या बहु मन्यते सद्धर्मनिरतचित्तांश्चान्यलोकान् सद्भावनयेति, तदियता प्रपञ्चेन लघुकर्मणः सन्मार्गाभ्यर्णवर्तिनोऽभिन्नकर्मग्रन्थेर्भिन्नकर्मग्रन्थेर्वा पुरस्कृतसम्यग्दर्शनस्य कियन्तमपि कालं भद्रकभावे वर्तमानस्यास्य जीवस्य यो व्यतिकरो भवति स व्यावर्णितः । तदनन्तरमिदानीं सकलकल्याणाक्षेपकारणभूतां परमेश्वरावलोकनां प्राप्नुवतोऽस्य यः प्र(त्स्यायं) पैद्यते, तत्र योऽसौ कथानकोक्तो रोरो 'लब्धचेतनो यावदित्थं विप्रकीर्ण चिन्तयति तावद् वृत्तान्तान्तरमपरं महाराजावलोकनलक्षणमापतितं' तथेहापि यदाऽयं जीवः सजातस्वकर्मलाघवतया सन्मार्गाभिमुखो भद्रकभावे वर्त्तते तदाऽस्य योग्यतया परमात्मावलोकनलक्षणोऽयमपरो वृत्तान्तः संपैद्यते । तत्र 'योऽसौ सुन्दरे प्रासादशिखरे सप्तमे भूमिकातले निविष्टमूर्त्तिरधस्ताद्वर्त्तमानं तददृष्टमूलपर्यन्तं नगरं समस्तं समस्तव्यापार
१ अन्यदर्शनमार्गादेशकं वचकवु. २ संप• प्र. ३ संपत्स्यते प्र.
॥५२॥
Jan Education
a
l
For Private
Personel Use Only
Jainelibrary.org