________________
उपमितौ
पीठबन्धः
॥ ५१ ॥
Jain Education In
1
परमेश्वरदर्शनसद्नमप्रतिपातिसुखपरम्पराकारणतया सततोत्सवमभिधीयते । तदेवं यथा यावद्विशेषणकलापयुक्तं तद्राजमन्दिरं तेन कथानकोक्तेनावलोकितं तथा तावद्विशेषणकला पोपेतमेवानेनापि जीवेनेदं सर्वज्ञशासनसदनमवलोकितमिति स्थितम् । यथा च स कथानकोक्तः । 'सततानन्दं तद्राजभवनमुपलभ्य किमेतदिति विस्मितश्चिन्तयति, न चासौ सोन्मादतया तद्विशेषगुणांस्तत्त्वतो जानातीत्युक्तम्' तथाऽयमपि जीवः सर्वज्ञशासनं सञ्जातकर्मविवरः कथञ्चिदुपलभ्य किमेतदिति जिज्ञासते, न चायं मिथ्यात्वांशैरुन्मादकल्पैरनुवर्त्तमानैस्तस्यामविस्थायामस्य जिनमतस्य ये विशेषगुणास्तांस्तत्त्वतो जानीते । यथा च तस्य कथानकोक्तस्य 'तात्पर्यवशेन लब्धचेतसः सतो हृदयाकृतैः | परिस्फुरितं यदुत — यदेतद्राजमन्दिरं सकलाश्चर्यधामास्य स्वकर्मविवरद्वारपालस्य प्रसादेन मयाऽधुना दृश्यते लग्नं, नूनमेतन्न मया कदाचिद्दृष्टं पूर्वं प्राप्तोऽहमस्य द्वारदेशे बहुशः पूर्व, केवलं मम मन्दभाग्यतया येऽन्ये द्वारपालाः पापप्रकृतयस्तत्राभूवंस्तैरहं प्राप्तः प्राप्तः कदर्थयित्वा निर्धाटित इति तदेतत्सर्वं जीवेऽपि समानं, तथाहि — भव्यस्य प्रत्यासन्नभविष्यद्भद्रस्य कथञ्चिदुपलभ्य सर्वज्ञशासनमविदिततगुणविशेषस्यापि मार्गानुसारितया भवत्येवंविधोऽभिप्रायः, यदुत — अत्यद्भुतमिदमर्हद्दर्शनं, यतोऽत्र तिष्ठन्ति ये लोकास्ते सर्वेऽपि सुहृद इव बान्धवा इवैकप्रयोजना इव समर्पितहृदया इवैकात्मका इव परस्परं वर्त्तन्ते, तथाऽमृततृप्ता इव निरुद्वेगा इव निरौत्सुक्या इव सोत्साहा इव परिपूर्णमनोरथा इव समस्तजन्तुसंघातहितोद्यतचेतसश्च सकलकालं दृश्यन्ते, तस्मात्सुन्दरमिदमद्य मया विज्ञातं, न पूर्व, विमर्शाभावात्, अन्यश्चायं जीवोऽनन्तवारा प्रन्थिप्रदेशं यावत्प्राप्तो न चानेन तद्भेदद्वारेण कचिदपि सर्वज्ञशासनमवलोकितं, यतो रागद्वेषमोहादिभिः क्रूरद्वारपालकल्पैर्भूयो भूयो निरस्त इति एतावतांऽशेनेदमुपदर्शितं, न पुनस्तस्यामवस्थायाममुं विभागमद्याप्ययं जीवो जानीते
१ मपि प्र०
For Private & Personal Use Only
जिनसदनदर्शनप्रमोदः
॥ ५१ ॥
ainelibrary.org