________________
6
2-
उपमितौ
पीठबन्धः
॥५०॥
पभोगविमर्दसुन्दरता न दुरुपपादा, तद्वर्णनेन चैतल्लक्षणीयं, यदुत-भोगास्तावत्पुण्योदयेन संपद्यन्ते, किन्तु तदेव पुण्यं द्विविधं-पुण्या- पुण्यानुनुबन्धि पापानुवन्धि च, तत्र ये पुण्यानुबन्धिपुण्योदयसम्पाद्याः शब्दाद्युपभोगास्त एव सुसंस्कृतमनोहरपध्यान्नवत्सुन्दरविपाकतया निरु- बन्धिभोग पचरितशब्दादिभोगवाच्यतां प्रतिपद्यन्ते, ते हि भुज्यमानाः स्फीततरमाशयं संपादयन्ति, ततश्चोदाराभिप्रायोऽसौ पुरुषो न तेषु प्रतिबन्ध हेतु: | विधत्ते, ततश्चासौ तान् भुजानोऽपि निरभिष्वङ्गतया प्राग्बद्धपापपरमाणुसञ्चयं शिथिलयति, पुनश्चाभिनवं शुभतरविपाकं पुण्यप्रागभा
रमात्मन्याधत्ते, स चोदयप्राप्तो भवविरागसम्पादनद्वारेण सुखपरम्परया तथोत्तरक्रमेण मोक्षकारणत्वं प्रतिपद्यत इति हेतोः सुन्दरविपाकास्ते|ऽभिधीयन्ते, ये तु पापानुबन्धिपुण्योदयजनिताः शब्दादि विषयानुभवास्ते सद्योघातिविषोपदिग्धमोदकवदारुणपरिणामतया तत्त्वतो भोगा एव नोच्यन्ते, यतस्ते मरुमरीचिकाजलकल्लोला इव तदुपभोगार्थ धावतः पुरुषस्य विफलश्रमसम्पादनेन गाढतरं तृष्णामभिवर्द्धयन्ति, न तु संप-18 द्यन्ते, कथश्चित्सम्प्राप्ता अपि ते भुज्यमानाः क्लिष्टमाशयं जनयन्ति, ततश्च तुच्छाभिप्रायोऽसौ पुरुषोऽन्धीभूतबुद्धिस्तेषु नितरां प्रतिबन्ध विधत्ते, ततस्तान कतिपयदिवसभाविनो भुजानस्तत्सम्पादकं प्रागुपनिबद्धं पुण्यलवं व्यवकलयति पुनश्चोदप्रगुरुतरपापभरमात्मन्याधत्ते, ततश्च तेनोदयप्राप्तेनानन्तदुःखजलचराकुलं संसारसागरमनन्तकालं स जीवः परावर्त्तते, तेन ते पापानुबन्धिपुण्यसम्पाद्याः शब्दादयो । दारुणपरिणामा इत्यभिधीयन्ते, येषां तु संसारोदरविवरवर्तिनां जन्तुसंघातानामवश्यतया ये शब्दादिविषयोपभोगाः सुन्दरपरिणामास्ते नियमतो भगवच्छासनमन्दिरादुक्तन्यायेन न बहिर्भूता वर्तन्ते, तस्मादन्यैरपि प्रेक्षापूर्वकारिभिरक्षेपेण मोक्षप्रापकेऽत्र भगवन्मन्दिरे भावतः। स्थेयं, अत्र स्थितानामनुषङ्गत एव तेऽपि सुन्दरतरा भोगादयः संपद्यन्ते, न तेषामपि सम्पादकोऽन्यो हेतुरित्युक्तं भवति, अत एव चेदं|81॥५०॥
१०विशेषसुखसाध्या० प्र.
Jain Educati
o
nal
For Private & Personel Use Only
H
arjainelibrary.org