SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ उपमितीकुलादिसामग्रीमासाद्य शुभकर्मणा ॥ ११ ॥ हेयं हानोचितं सर्व, कर्त्तव्यं करणोचितम् । श्लाघ्यं श्लाघोचितं वस्तु, श्रोतव्यं श्रवणोचितम् पीठबन्धः ॥१२॥ युग्मम् । तत्र यत्किञ्चिञ्चित्तमालिन्यकारणं मोक्षवारणम् । मनोवाक्कायकर्मेह, हेयं तत् स्वहितैषिणा ॥१३॥ हारनीहारगोक्षीरकु न्देन्दुविशदं मनः । कृतं यत् कुरुते कर्म, कर्त्तव्यं तन्मनीषिणा ।। १४ ॥ श्लाघनीयः पुनर्नित्यं, विशुद्धनान्तरात्मना । त्रिलोकनाथ १स्तद्धर्मो २, ये च तत्र व्यवस्थिताः ३ ॥ १५ ॥ श्रोतव्यं भावतः सारं, श्रद्धासंशुद्धबुद्धिना । निःशेषदोषमोषाय, वचः सर्वज्ञभाषितम् ॥ १६ ॥ तन्त्र प्रस्तुतं तावत्तदेव जगते हितम् । श्रोतव्यमिति संचिन्त्य, वचः सर्वज्ञभाषितम् ॥ १७ ॥ ततस्तदनुसारेण, महामोहादिसूदनी । निर्दिष्टभवविस्तारा, कथेयमभिधास्यते ॥ १८ ॥ तथाहि-पञ्चाश्रवमहादोषा, हृषीकाणां च पञ्चकम् । महामोहयुतानां च, कषायाणां चतुष्टयम् ॥ १९ ॥ मिथ्यात्वरागद्वेषादिरूपं यच्चान्तरं बलम् । तदोषावेदकं सर्व, वचः सर्वज्ञभाषितम् ॥२०॥ युग्मम् । तथाज्ञानदर्शनचारित्रसंतोषप्रशमात्मकम् । तपःसंयमसत्यादिभटकोटिसमाकुलम् ॥ २१॥ यच्चान्तरं बलं तस्य, गुणसंभारगौरवम् । वर्णयत्येव 8 जैनेन्द्र, वचनं हि पदे पदे ॥२२॥ युग्मम् । तथा-एकेन्द्रियादिभेदेन, दुःखरूपमनन्तकम् । भवप्रपञ्चं जैनेन्द्र, वचनं कथयत्यलम् ॥२३॥ अतस्तां भित्तिमाश्रित्य, मादृशेनापि जल्पितम् । वाक्यं जैनेन्द्रसिद्धान्तनिष्यन्द इति भाव्यताम् ॥ २४ ॥ इह च-अर्थ कामं च धर्म च, तथा संकीर्णरूपताम् । आश्रित्य वर्त्तते लोके, कथा तावच्चतुर्विधा ॥ २५ ॥ सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥ २६ ॥ सा क्लिष्टचित्तहेतुत्वात्पापसंबन्धकारिका । तेन दुर्गतिवर्त्तन्याः, प्रापणे प्रवणा मता ॥ २७ ॥ कामोपादानगर्भार्था, वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता ॥ २८ ॥ सा मलीमसकामेषु, रागोत्कर्षविधायिका । विपर्यासकरी तेन, हेतुभूतैव दुर्गतेः ॥ २९ ॥ दयादानक्षमायेषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते कथाभेदाः २५-३४ ॥२॥ in Education international For Private & Personel Use Only aainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy