________________
उपमितीकुलादिसामग्रीमासाद्य शुभकर्मणा ॥ ११ ॥ हेयं हानोचितं सर्व, कर्त्तव्यं करणोचितम् । श्लाघ्यं श्लाघोचितं वस्तु, श्रोतव्यं श्रवणोचितम् पीठबन्धः ॥१२॥ युग्मम् । तत्र यत्किञ्चिञ्चित्तमालिन्यकारणं मोक्षवारणम् । मनोवाक्कायकर्मेह, हेयं तत् स्वहितैषिणा ॥१३॥ हारनीहारगोक्षीरकु
न्देन्दुविशदं मनः । कृतं यत् कुरुते कर्म, कर्त्तव्यं तन्मनीषिणा ।। १४ ॥ श्लाघनीयः पुनर्नित्यं, विशुद्धनान्तरात्मना । त्रिलोकनाथ १स्तद्धर्मो २, ये च तत्र व्यवस्थिताः ३ ॥ १५ ॥ श्रोतव्यं भावतः सारं, श्रद्धासंशुद्धबुद्धिना । निःशेषदोषमोषाय, वचः सर्वज्ञभाषितम् ॥ १६ ॥ तन्त्र प्रस्तुतं तावत्तदेव जगते हितम् । श्रोतव्यमिति संचिन्त्य, वचः सर्वज्ञभाषितम् ॥ १७ ॥ ततस्तदनुसारेण, महामोहादिसूदनी । निर्दिष्टभवविस्तारा, कथेयमभिधास्यते ॥ १८ ॥ तथाहि-पञ्चाश्रवमहादोषा, हृषीकाणां च पञ्चकम् । महामोहयुतानां च, कषायाणां चतुष्टयम् ॥ १९ ॥ मिथ्यात्वरागद्वेषादिरूपं यच्चान्तरं बलम् । तदोषावेदकं सर्व, वचः सर्वज्ञभाषितम् ॥२०॥ युग्मम् । तथाज्ञानदर्शनचारित्रसंतोषप्रशमात्मकम् । तपःसंयमसत्यादिभटकोटिसमाकुलम् ॥ २१॥ यच्चान्तरं बलं तस्य, गुणसंभारगौरवम् । वर्णयत्येव 8 जैनेन्द्र, वचनं हि पदे पदे ॥२२॥ युग्मम् । तथा-एकेन्द्रियादिभेदेन, दुःखरूपमनन्तकम् । भवप्रपञ्चं जैनेन्द्र, वचनं कथयत्यलम् ॥२३॥ अतस्तां भित्तिमाश्रित्य, मादृशेनापि जल्पितम् । वाक्यं जैनेन्द्रसिद्धान्तनिष्यन्द इति भाव्यताम् ॥ २४ ॥ इह च-अर्थ कामं च धर्म च, तथा संकीर्णरूपताम् । आश्रित्य वर्त्तते लोके, कथा तावच्चतुर्विधा ॥ २५ ॥ सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥ २६ ॥ सा क्लिष्टचित्तहेतुत्वात्पापसंबन्धकारिका । तेन दुर्गतिवर्त्तन्याः, प्रापणे प्रवणा मता ॥ २७ ॥ कामोपादानगर्भार्था, वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता ॥ २८ ॥ सा मलीमसकामेषु, रागोत्कर्षविधायिका । विपर्यासकरी तेन, हेतुभूतैव दुर्गतेः ॥ २९ ॥ दयादानक्षमायेषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते
कथाभेदाः २५-३४ ॥२॥
in Education international
For Private & Personel Use Only
aainelibrary.org