________________
उपमितौ ठबन्धः
श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्के,
श्रीसिद्धर्षिप्रणीता, श्रीउपमितिभवप्रपञ्चा कथा ।
मङ्गलं
(जैनचम्पूकाव्यानि) ऐं नमः। नमो निर्नाशिताशेषमहामोहहिमालये । लोकालोकामलालोकभास्वते परमात्मने ॥१॥ नमो विशुद्धधर्माय, स्वरूपपरिपूर्तये ।। नमो विकारविस्तारगोचरातीतमूर्तये ॥२॥ नमो भुवनसंतापिरागकेसरिदारिणे । प्रशमामृततृप्ताय, नाभेयाय महात्मने ॥ ३ ॥ नमो द्वेषगजेन्द्रारिकुम्भनिर्भेदकारिणे । अजितादिजिनस्तोमसिंहाय विमलात्मने ॥४॥ नमो दलितदोषाय, मिथ्यादर्शनसूदिने । मकरध्वजनाशाय, वीराय विगतद्विषे ॥५।। अथवा-अन्तरङ्ग महासैन्यं, समस्तजनतापकम् । दलितं लीलया येन, केनचित्तं नमाम्यहम् ।।६॥ समस्तवस्तुविस्तारविचारापारगोचरम् । वचो जैनेश्वरं वन्दे, सूदिताखिलकल्मषम् ॥ ७॥ मुखेन्दोरंशुभिर्व्याप्तं, या बिभर्ति विकस्वरम् । करे पद्ममचिन्त्येन, धाम्ना तां नौमि देवताम् ॥ ८॥ परोपदेशप्रवणो, मादृशोऽपि प्रजायते । यत्प्रभावान्नमस्तेभ्यः, सद्गुरुभ्यो विशेषतः॥९॥ इत्थं कृतनम-1 स्कारः, शान्तविघ्नविनायकः । विवक्षितार्थप्रस्ताव, रचयिष्ये निराकुलः ॥ १०॥-इहातिदुर्लभं प्राप्य, मानुष्यं भव्यजन्तुना । ततः
प्रस्तावना १०-२३
उ.भ. १
Jain Educa s
anational
For Private & Personal Use Only
Gww.jainelibrary.org