________________
उपमितौ पीठबन्धः
॥ ४५ ॥
Jain Educatie
तशब्दादिविषयोपभोगविमर्दसुन्दरं सततोत्सवं दृष्टं तथाऽनेनापि जीवेन वज्रवद्दुर्भेदोऽभिन्न पूर्वश्च संसारे यः लिष्टकर्मग्रन्थिस्तद्भद्वारेण स्वकर्मविवरप्रवेशितेनेदं सर्वज्ञशासनमन्दिरं तथाभूतविशेषणमेव सकलमवलोक्यते, तथाहि - " दृश्यन्तेऽत्र मौनीन्द्रे प्रवचनेऽपास्ताज्ञानतमः पटलप्रसरा “विविधरत्ननिकराकारधारका विलसद्मलालोकप्रकाशितभुवनभवनोदरा ज्ञानविशेषाः, तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्ग“वशरीरशोभतया मनोहरमणिखचितविभूषणविशदाकारतां दधानाः खल्वामशषध्यादयो नानर्द्धिविशेषाः, तथा कुर्वन्ति सुजनहृदयाक्षेपमत्र “जिनमते ऽतिसुन्दरतया विचित्रवस्त्रविस्ताराकारबहुविधतपोविशेषाः, तथा जनयन्ति चित्ताहादातिरेकमत्र पारमेश्वरे मते लोलोज्ज्वलांशुको“ल्लोचावलम्बिमौक्तिकावचूलरूपतामाबिभ्राणा रचनासौन्दर्ययोगितया चरणकरणरूपा मूलोत्तरगुणाः, तथाविधेऽत्र जैनेन्द्रदर्शने वर्त्तमानानां “धन्यानां वक्त्रसौष्टवगन्धोत्कर्षचित्तानन्दातिरेकमुदारताम्बूलसन्निभं सत्यवचनं, तथा व्याप्नुवन्ति स्वसौरभोत्कर्षेण दिकक्रवालमत्र भागवते मते “मुनिमधुकरनिकरप्रमोदहेतुतया विचित्रभक्तिविन्यासप्रथिततया मनोहारिकुसुमप्रचयाकारधारकाण्यष्टादशशीलाङ्गसहस्राणि तथा निर्वापयति “मिथ्यात्वकषायसन्तापानुगतानि भव्य सत्त्वशरीराणि गोशीर्षचन्दनादिविलेपनसन्दोहदेश्यतां दधानमत्र पारमेश्वरदर्शने सम्यग्दर्शनं, यतश्चात्र “सर्वज्ञोपज्ञे सज्ज्ञानदर्शनचारित्रप्रधाने प्रवचने वर्त्तन्ते ये जीवास्तैर्महाभागधेयैः स्थगितो नरकान्धकूपः भग्नस्तिर्यग्गतिचारकावासः निर्द“लितानि कुमानुषत्वदुःखानि विमर्दिताः कुदेवत्वमानससन्तापाः प्रलयं नीतो मिथ्यात्ववेतालः निष्पन्दीकृता रागादिशत्रवः जरितप्रायं “कर्मनिचयाजीर्णम् अपकर्णिता जराविकाराः अपहस्तितं मृत्युभयं करतलवर्त्तीनि संपादितानि स्वर्गापवर्गसुखानि, अथवाऽवधीरितानि तैर्भ“गवन्मतस्थैर्जीवैः सांसारिकसुखानि गृहीतो हेयबुद्ध्या समस्तोऽपि भवप्रपञ्चः कृतं मोक्षैकतानमन्तःकरणम्, न च तेषां परमपदप्राप्तिं प्रति "व्यभिचाराशङ्का, 'न ह्युपाय उपेयव्यभिचारी,” उपायश्चाप्रतिहतशक्तिकः परमपदप्राप्तेः सज्ज्ञानदर्शनचारित्रात्मको मार्गः, स च प्राप्तोऽस्मा
For Private & Personal Use Only
शासनस्य राजमन्दि
रता
शासनप्रातिफलं
॥ ४५ ॥
www.jainelibrary.org