________________
उपमितौ पीठबन्धः
॥४४॥
श्रुतानां
पमा
यानन्तानन्दसन्दोहस्वरूपतया च परमार्थेन सुस्थितो भवितुमर्हति, न शेषा अविद्यादिक्लेशराशिवशवर्तिनः, अतिदुःस्थितत्वात्तेषाम् , स एव च भगवान् समस्तभूतसंघातस्यापि सूक्ष्मरक्षणोपदेशदायितयाऽक्षेपेण मोक्षप्रापणप्रवणप्रवचनार्थप्रणेतृतया च स्वभावेनैवातिवत्सलहृदयः, स| एव च प्रख्यातकीर्तिः निःशेषामरनरविसरनायकैः पुरुहूतचक्रवर्त्यादिभिः, यतः स एव प्रशस्तमनोवाक्कायव्यापरपरायणैरनवरतमभिष्ट्रयते, अत एव चासावेवाविकलं महाराजशब्दमुद्वोढुमर्हति, यथा च स रोरः- पर्यटस्तस्य मन्दिरद्वारं कथञ्चित्प्राप्तः, तत्र च स्वकर्मविवरो नाम द्वारपालस्तिष्ठति, तेन च कृपालुतया तत्र राजभवने प्रवेशित इत्युक्तं' तदेवमिह योजनीयम्-तत्र यदाऽस्य जीवस्यानादिमता यथाप्रवृत्तसंज्ञेन करणेन कथञ्चिद् घर्षणघूर्णनन्यायेनायुष्कवर्जितानां सप्तानां कर्मप्रकृतीनां स्थितेः समस्ता अपि सागरोपमकोटीकोटयः पर्यन्तवर्तिनीमेकां सागरोपमकोटीकोटिं विहाय क्षयमुपगता भवन्ति, तस्या अपि कियन्मात्रं क्षीणं, तदाऽयं जीवस्तस्यात्मनृपतेः सम्बन्धि यदेतदाचारादिदृष्टिवादपर्यन्तं द्वादशाङ्गं परमागमरूपं तदाधारभूतचतुर्वर्णश्रीश्रमणसङ्घलक्षणं वा मन्दिरं तस्य द्वारि प्राप्तोऽभिधीयते, तत्र च प्रवेशनप्रवणः-स्वस्य-आत्मीयस्य कर्मणो विवरो-विच्छेदः स्वकर्मविवरः स एव यथार्थाभिधानो द्वारपालो भवितुमर्हति, अन्येऽपि रागद्वेषमोहादयस्तत्र द्वारपाला विद्यन्ते, केवलं तेऽस्य जीवस्य प्रतिबन्धका न पुनस्तत्र प्रवेशकाः, तथाहि-अनन्तवाराः प्राप्तः प्राप्तोऽयं जीवस्तै-- निराक्रियते, यद्यपि क्वचिदवसरे तत्र तेऽपि प्रवेशयन्त्येनं तथापि तैः प्रवेशितो न परमार्थतः प्रवेशितो भवति, रागद्वेषमोहाद्याकुलितचित्ता यद्यपि यतिश्रावकादिचिह्नाः क्वचिद्भवन्ति तथापि ते सर्वज्ञशासनभवनाद् बहिर्भूता द्रष्टव्या इत्युक्तं भवति, ततश्चायं जीवस्तेन स्वकर्मविवरद्वारपालेन तावती भुवं प्राप्तो प्रन्थिभेदद्वारेण सर्वज्ञशासनमन्दिरे प्रवेशित इति युक्तमभिधीयते। यथा च तेन कथानकोक्तेन 'तद्राजभवनमदृष्टपूर्वमनन्तविभूतिसंपन्नं राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितं स्थविराजनसनाथं सुभटसंघाताकीर्ण विलसद्विलासिनीसाथ निरुपचरि
॥४४॥
Jain Education
a
l
For Private & Personel Use Only
mr.jainelibrary.org