________________
उपमितौ च. ४-अ.
॥४६८॥
तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये । ततो भद्रेऽगृहीतसङ्केते! तथा तैर्गाढपार्णिप्र
रिपुदारहारैर्जर्जरितशरीरस्य मे निपतितमुदरे रक्तं संजातः सन्तापातिरेकः ततो जीर्णा मे सैकभववेद्या गुटिका दत्ता च ममान्या गुटिका है | णस्य भभवितव्यतया, तन्माहात्म्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगर्या महातमःप्रभाभिधाने पाटके, समुत्पन्नः पापिष्ठकुलपुत्रकरूपः, वान्तरस्थितस्तत्रैव त्रयस्त्रिंशत्सागरोपमाणि कन्दुकवदुल्ललमानोऽधस्तादुपरि च वनकण्टकैस्तुद्यमानः, तदित्थमवगाहितो मयाऽतितीव्रतरदुःखभर-12 संक्रमः सागरः । ततस्तत्पर्यन्ते जीर्णायां पूर्वदत्तगुटिकायां दत्ता ममान्या गुटिका भवितव्यतया, तत्तेजसा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे। दर्शितस्तत्र जम्बुकाकारधारको भवितव्यतया । एवं च भद्रेऽगृहीतसङ्केते! केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपर्युपरि स्थितेषु सप्तसु पाटकेषु तथा पञ्चाक्षपशुसंस्थाने विकलाक्षनिवासे एकाक्षनिवासे मनुजगतो, किंबहुना?, तदसंव्यवः | हारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु जीर्णायां जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां पुनरपरा-| परां गुटिका योजयन्या अरघट्टघटीयनन्यायेन भ्रामितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः, सर्वस्थानेषु च पर्यटतो मे जघन्या जातिनि|न्दितं कुलं अत्यन्तहीनं बलं गर्हितं रूपं निन्द्यं तपश्चरणं आजन्म दारिद्र्यं सततं च मूर्खता अलाभसन्तापदारुणं याचकत्वं सकलजनानिष्टत्वं |च गुटिकाप्रयोगेणैव प्रकटितं भवितव्यतया, तथा जिह्वोत्पाटनं तप्तताम्रपानं मूकत्वं मन्मनत्वं जिह्वोच्छेदमित्यादि च विधापितवती । एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो मानमृषावादयोर्दारुणता, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन हारितो
॥४६८॥ मनुष्यभवः प्राप्तास्तत्रैव नानाविडम्बनाः अवगाहितोऽनन्तः संसारसागरोऽनुभूतानि विविधदुःखानि प्राप्तानि गर्हितानि जात्यादीनीति । संसारिजीवः प्राह-ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया संजाता मे तत्र मध्यमगुणता ततस्तुष्टा ममोपरि भवित
Jain Educational
For Private & Personel Use Only
mr.jainelibrary.org