SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-अ. ॥४६८॥ तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये । ततो भद्रेऽगृहीतसङ्केते! तथा तैर्गाढपार्णिप्र रिपुदारहारैर्जर्जरितशरीरस्य मे निपतितमुदरे रक्तं संजातः सन्तापातिरेकः ततो जीर्णा मे सैकभववेद्या गुटिका दत्ता च ममान्या गुटिका है | णस्य भभवितव्यतया, तन्माहात्म्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगर्या महातमःप्रभाभिधाने पाटके, समुत्पन्नः पापिष्ठकुलपुत्रकरूपः, वान्तरस्थितस्तत्रैव त्रयस्त्रिंशत्सागरोपमाणि कन्दुकवदुल्ललमानोऽधस्तादुपरि च वनकण्टकैस्तुद्यमानः, तदित्थमवगाहितो मयाऽतितीव्रतरदुःखभर-12 संक्रमः सागरः । ततस्तत्पर्यन्ते जीर्णायां पूर्वदत्तगुटिकायां दत्ता ममान्या गुटिका भवितव्यतया, तत्तेजसा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे। दर्शितस्तत्र जम्बुकाकारधारको भवितव्यतया । एवं च भद्रेऽगृहीतसङ्केते! केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपर्युपरि स्थितेषु सप्तसु पाटकेषु तथा पञ्चाक्षपशुसंस्थाने विकलाक्षनिवासे एकाक्षनिवासे मनुजगतो, किंबहुना?, तदसंव्यवः | हारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु जीर्णायां जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां पुनरपरा-| परां गुटिका योजयन्या अरघट्टघटीयनन्यायेन भ्रामितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः, सर्वस्थानेषु च पर्यटतो मे जघन्या जातिनि|न्दितं कुलं अत्यन्तहीनं बलं गर्हितं रूपं निन्द्यं तपश्चरणं आजन्म दारिद्र्यं सततं च मूर्खता अलाभसन्तापदारुणं याचकत्वं सकलजनानिष्टत्वं |च गुटिकाप्रयोगेणैव प्रकटितं भवितव्यतया, तथा जिह्वोत्पाटनं तप्तताम्रपानं मूकत्वं मन्मनत्वं जिह्वोच्छेदमित्यादि च विधापितवती । एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो मानमृषावादयोर्दारुणता, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन हारितो ॥४६८॥ मनुष्यभवः प्राप्तास्तत्रैव नानाविडम्बनाः अवगाहितोऽनन्तः संसारसागरोऽनुभूतानि विविधदुःखानि प्राप्तानि गर्हितानि जात्यादीनीति । संसारिजीवः प्राह-ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया संजाता मे तत्र मध्यमगुणता ततस्तुष्टा ममोपरि भवित Jain Educational For Private & Personel Use Only mr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy