________________
H
उपमितौ च. ४-अ.
रिपुदारणविडम्बना
॥४६७॥
वीत निजपापभरेण भृशं जनः ।। ४३८ ॥ ध्रुवकः। एवं च सोल्लासमुद्रायन्तस्ते वल्पमानाः कुण्डकमध्ये मां कृत्क विजम्भितुं प्रवृत्ताः, ततोऽहं पतामि तेषां प्रत्येकं पादेषु नृत्यामि हास्यकरं जनानां समुल्लसामि तेषूलसमानेषु वदामि च तालाः, ततस्त्रैरभिहितं पश्यतेह भव एव जनाः कुतूहलं, शैलराजवरमित्रविलासकृतं फलम् । यः पुरैष गुरुदेवगणानपि नो नतः, सोऽय वासचरणेषु नतो रिपुदारणः
४३९ ॥ पुनर्बुवक:-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततो ममापि मुखं स्फुटित्वेदमागतं । यदुत-शैलराजवशवर्तितया निखिले जने, हिण्डितोऽहमनृतेन वृथा किल पण्डितः । मारिता च जननी हि तथा नरसुन्दरी, तेन पापचरितस्य ममात्र विडम्बनम् ।। ४४० ॥ पुनर्बुवक:--'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततो रासदायकाः प्रोक्ता बिवितपूर्ववृत्तान्तेन योगेश्वरेणअरे रे एवं मायत, इदं च कुरुत-योऽत्र जन्ममतिदायिगुखनवमन्यते, सोऽत्र दासचरणाप्रतलैरपि हन्यते । यस्त्वलीकवचनेन जनानुतापयेत् , तस्य तपननृप इत्युचितानि विधापयेत् ॥४४१॥ पुनर्बुवक:-'यो हि गर्व'मित्यादि । ततश्चेदं गायन्तस्ते गाढं पार्णिप्रहारैर्मा निर्दयं चूर्णयितुं प्रवृत्ताः, ततो निविडलोहपिण्डैरिव समकालं निपतद्भिरेतावद्भिः पादैर्दलितं मे शरीरं विमूढा गाढतरं मे चेतना, तथापि ते राजपुरुषा नरकपाला इव मम कुण्डकान्निःसारमयच्छन्तस्तवैवोल्ललमाना मां बलादाखेटयन्तत्रितालकं रासं ददमाना एव प्राप्तास्तपननरेन्द्रास्थानं, दर्शितं तत्र विशेषतस्तत्प्रेक्षणकं, प्रवृत्तं प्रहसनं, ईदृशस्यैव योग्योऽयं दुरात्मेति संजातो जनवादः । ततो योगेश्वरेण रासकदायकमध्ये खित्वाऽभिहितम् यथा-नो नतोऽसि पितृदेवगणं न च मातरं, कि हतोऽसि ? रिपुदारण! पश्यसि कातरम् । नृत्य नृत्य विहिवाहति देवपुरोऽधुना, निपत निफ्त चरणेषु च सर्वमहीभुजाम् ॥ ४४२ ॥ पुनर्भुवक:-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततोऽसुम्बादशेत्र जीवितायेव व दैन्यमुररील नातितोऽनेकथा, पतितोऽन्खजानामपि चरणेषु, संजातश्वावस्तुभूतः,
CSCAMLCOMSASUR
॥४६७
Jain Education
ldhal IN
For Private Personal Use Only
Kinaw.jainelibrary.org