________________
उपमिती च. ४-प्र.
आचार्य
॥४६२॥
निवेद्यताम् ॥ ३७७ ॥ ततो विचक्षणेनोक्तं, सर्वेषामयभीरशः। साधूमं भूप! संपन्नो, वृत्तान्तो नास्ति संशयः ॥ ३७८. ॥ अन्यच्च----
संपद्यते तवापीह, वृत्तान्तोऽयं नरेश्वर! । यदि त्वं कुरुषे सद्यो, यादृशं मादृशैः कृतम् ॥ ३७९ ॥ दर्शयामि क्षणेनैव, वं विवेकमहागि| रिम् । ततस्त्रजायते तेऽत्र, स्वयमेव कुटुम्बकम् ।। ३८० ॥ ततश्च-महामोहादिवर्ग: च, स्वयमेव विजेष्यसि । लोलतां च निराकृत्य, रंस्यसे साधुमध्यगः ॥ ३८१ ॥ ततो भगवतो वाक्यमाकयेदं मनोरमम् । स्वचित्ते चिन्तयत्येवं, नरवाहनपार्थिवः ।। ३८२ ॥ अहो भगवता प्रोक्तमिदमत्र परिस्फुटम् । य एवोत्सहते दोा , तस्यैव प्रभुता करे ॥ ३८३ ॥ ततो भागवतीं दीक्षा, गृहाण किल भूपते! । तव संपद्यते येन, संपन्नं यत्तु मादृशाम् ॥ ३८४ ॥ अहो भगवता चारु, ममादिष्टं महात्मना । गृहाम्येवाधुना दीक्षामिति चित्तेऽवधारितम् ॥ ३८५ ॥ ततो विघटितानिष्टदुष्टपापाणुसञ्चयः । अवोचत गुरुं नत्वा, स राजा नरवाहनः ।। ३८६ ॥ भदन्त ! यदि मे काचिद्विद्यते योग्यतेदृशी । ततः करोम्यहं ताहा , कृतं यादृग् भवादृशैः ॥ ३८७ ॥ किं चानेन!-दीयतां जिनदीक्षा मे, |क्रियतां मदनुग्रहः । ततो युष्मत्प्रसादेन, सर्व चारु भविष्यति ॥ ३८८ ॥ सूरिणाऽभिहितं भूप!, सुन्दरस्ते विनिश्चयः । युक्तमेतद्धि भव्यानां, कृत्यमेतद्भवादृशाम् ॥ ३८९ ॥ नूनं मदीयवाक्यस्य, सद्भावार्थोऽवधारितः । संजातस्तेन ते भूप!, महोत्साहोऽयमीदृशः ॥ ३९० ॥ तथाहि-तादृक्षु वलामानेषु, महामोहादिशत्रुषु । को वा नाश्यते दुर्ग, सुक्षेमं जैनसत्पुरम् ? ॥ ३९१ ॥ निश्चिन्तो गृहवासेऽत्र, को वा दुःखौघपूरिते? । आसीत विदिते जैने, सत्पुरे सुखसागरे ।। ३९२ ॥ अलं कालविलम्बेन, सजन्नत्र महाभये । एवं ते ज्ञाततत्त्वस्य, युक्तमत्र प्रवेशनम् ॥ ३९३ ॥ ततो भागवतं वाक्यं, श्रुत्वा संतुष्टचेतसा । तदेतश्चिन्तितं राज्ञा, दीक्षाग्रहणकाम्यया ॥ ३९४ ॥-राज्ये कं स्थापयामीति, को का योग्योऽस्य मत्सुतः । ततो विस्फारिता दृष्टिनीलाब्जदललासिनी ॥ ३९५ ॥ अथागृही
ARUN SAMSASUR
॥४६२॥
VIR
Jain Education
a
l
For Private Personal Use Only
Niww.jainelibrary.org