SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥४६१॥ दृशी मदीया प्रव्रज्येति । एवं च व्यवस्थिते-भार्यादोषेण यो नाम, प्रव्रज्यां समुपागतः । न च साऽपि परित्यक्ता, सर्वथा येन पापिनी ॥ ३६३ ॥ यश्च पालयतेऽद्यापि, कुटुम्ब तदवस्थितम् । तस्य मे कीदृशी नाम, प्रव्रज्या भूप! कथ्यताम् ? ॥ ३६४ ॥ तथापि ते महा-13 राज!, यन्ममोपरि गौरवम् । तर्कयन्नपि तत्राहं, न जाने बत कारणम् ॥३६५॥ यतः-सदोषेऽपि गुणारोपी, जगदाहादकारकः । किमेषोऽचिन्त्यसौन्दर्यः, सजनप्रकृतेर्गुणः ॥३६६॥ तथाहि-नूनमेषा सतां दृष्टिश्चापयष्टिरपूर्विका । अकारणेऽपि या नित्यं, गुणामारोपपरायणा ॥ ३६७ ॥ किंवा भुवनवन्द्यस्य, गुणोऽयं हतविद्विषः । अस्यैव जैनलिङ्गस्य, यत्रैते संस्थिता वयम् ॥ ३६८ ॥ तथाहि सुरेन्द्रा अपि वन्दन्ते, तं भक्तिभरपूरिताः । करस्थं यस्य पश्यन्ति, जैनेन्द्र लिङ्गमजसा ॥ ३६९ ॥ किं चान्यत्कारणं किञ्चिद्गृहस्थाचारधारकः । येनेदृशोऽपि ते राजन्नई दुष्करकारकः ॥ ३७० ॥ एवं च वदति भगवति विगलितमदचेतसि विचक्षणसूरौ नरवाहनराजेन चिन्तितं-अहो निजचरितकथनेन भगवता जनितो मे मोहविलयः अहो भगवतां वचनविन्यासः अहो विवेकित्वं अहो मय्यनुप्रहपरता अहो दृष्टपरमार्थतेति, विज्ञातश्च मया सर्वस्यास्य भगवद्भाषितस्य गर्भार्थः, ततोऽभिहितमनेन–भदन्त! यादृशं लोके, संपन्न ते कुटुम्बकम् । अधन्यास्तादृशं नूनं, प्राप्नुवन्ति न मादृशाः ॥ ३७१ ॥ इदं च पोषयन्नत्र, जैनलिङ्गे च संस्थितः । भदन्त ! भगवा-1 नेव, गृहस्थो भवतीदृशः ।। ३७२ ॥ अन्यच्च-कृताऽकिञ्चित्करी येन, रसनाऽपि महात्मना । अत्यन्तदुर्जया लोके, लोलता च निराकृता ॥ ३७३ ।। महामोहादिवर्ग च, जित्वा यो जैनसत्पुरे । स्थितोऽसि साधुमध्यस्थः, कुटुम्बसहितो मुने! ॥ ३७४ ॥ स चेत्त्वं न भवस्यत्र, हन्त दुष्करकारकः । कीदृशास्ते भवन्त्यन्ये, ब्रूहि दुष्करकारकाः ॥३७५॥ यश्चायं तव संपन्नो, वृत्तान्तो जगदद्भुतः । एत- द्वृत्तान्तयुक्ता ये, ते वन्द्याः प्रतिभान्ति मे ॥ ३७६ ॥ तद्भदन्त ! किमेतेषां, साधूनामयमीदृशः । संपन्न एव वृत्तान्तः, किंवा नेति AKASKAR ॥४६१॥ JainEducation For Private Personal Use Only ब jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy