________________
विमलालोकलाम:
उपमितौ
नोको विमों भट! दीयताम् । मह्यं तदुचनं तूर्ण, यद्यस्ति तव तादृशम् ॥ ३५४ ॥ ततोऽनुग्रहबुद्ध्यैव, सादरं प्रतिपादितम् । विच. ४-प्र.
चक्षणाय निःशेष, विमर्शेन तदञ्जनम् ॥ ३५५ ॥ ततस्तदुपयोगेन, क्षणादेव पुरःस्थितम् । विचक्षणेन यदृष्ट, तदिदानीं निबोधत
॥३५६॥ यत्तलोकशताकीण, पुरं सात्त्विकमानसम् । यश्चासौ विमलस्तुङ्गो, विवेको नाम पर्वतः ॥ ३५७ ॥ यच्च तच्छिखरं रम्य॥४६॥
मप्रमत्तवनामकम । यञ्चोपरिष्टात्तस्यैव, निविष्टं जैनसत्पुरम् ॥ ३५८ ॥ ये च लोका महात्मानः, साधवस्तन्निवासिनः । यश्च चित्तसमाधानो. मध्यस्थस्तत्र मण्डपः ।। ३५९ ।। या च नि:स्पृहता नाम, वेदिका तत्र संस्थिता । तस्याश्वोपरि यच्चारु, जीववीर्य महासनम् IMBाचारित्रधर्मराजश्व, परिवारविवेष्टितः।ये च तस्य गुणाः शुभ्रा, ये च तेषां महीभुजाम् ॥ ३६१ ॥ तदिदं भो महाराज!, तदानीं नरवाहन विचक्षणेन निःशेष, साक्षादेवावलोकितम् ॥३६२॥ षभिः कुलकम् । ततश्च भो भो महानरेन्द्र नरवाहन! स विचक्षणः सहैव
मोदन पित्रा युक्त एव तया निजचारुतया मात्रा आलिङ्गित एव तया प्रियभार्यया बुद्ध्या सहित एव तेन श्वशुर्येण विमर्शन अन्वित एव वक्षःस्थलशायिना तेन प्रकर्षण प्रियतमतनयेन समुपेत एव वदनकोटरवने वर्तमानया रसनाभार्यया सर्वथा सकुटुम्बक एव देवनाका नोलता दासचेटर्टी परित्यज्य निराकृत्य च परुषक्रियया संप्राप्य गुणधरनामानमाचार्य प्रत्रजितः, तेन स्थितस्तेषां जैनपु
रनिवासिनां भगवतां साधूनां मध्ये किलाहं प्रव्रजित इति मन्यमानः, ततः शिक्षितः समस्तोऽपि तेन तेषामाचारो निषेवित: परमभक्त्या IM विसर्जिता सा रसना सर्वथा विहिताऽत्यर्थमकिश्चित्करी, ततः स्थापितस्तेन गुरुणा निजपदे स विचक्षणः, स चान्यत्रापि दृश्यमानः
परमार्थतस्तत्रैव विवेकगिरिशिखरवासिनि जेनपुरे द्रष्टव्यः । यतो भो महाराज नरवाहन! स विचक्षणोऽहमेव विज्ञेयः, एते च ते महात्मानः साधवो मन्तव्याः, ततो महाराज! यद्भवद्भिरभ्यधायि यदुत-किं ते वैराग्यकारणमिति तदिदं मम वैराग्यकारणं, इयं चे
विचक्षणप्रव्रज्या
॥४६॥
Jain Education in
For Private & Personel Use Only
jainelibrary.org