________________
उपमितौ च. ४-अ.
॥४५७॥
BHASKAR
ज्वलविद्युदलङ्करणा । कृतसन्ततगर्जितधीररवा, दृढगोपितभास्करजाररता ।। २९९ ॥ रटदुद्भटदर्दुरखिड्गनरा, चलशुभ्रबलाहकहासपरा। प्रावृड्गिरिकोटरनृत्तशिखण्डिवरा, बहुलोकमनोहररूपधरा ॥ ३०० ॥ सुसुगन्धिकदम्बपरागवहा, बिटकोटिविदारणमोदसहा । इति रूपविला-ला
वर्णनं सलसत्कपटा, भुवनेऽत्र रराज यथा कुलटा ॥ ३०१ ॥ अथ तां तादृशीं वीक्ष्य, प्रावृषं हृष्टमानसः । प्रकर्षों गमनोयुक्तः, प्रोवाच | निजमातुलम् ॥ ३०२ ॥ म्यतामधुना माम!, त्वरितं तातसन्निधौ । यतोऽमी शीतलीभूता, वर्तन्ते सुगमाः पथाः ॥ ३०३ ॥ विमर्शेनोदितं वत्स!, मैवं वोचः कदाचन । यतोऽधुना व्यवच्छिन्नौ, विशेषेण गमागमौ ॥ ३०४ ॥ तथाहि-सुच्छन्नगृहमध्यस्थाः, स्वाधीनदयिताननाः । वर्षासु धन्या गण्यन्ते, जनैर्ये न प्रवासिनः ॥ ३०५ ॥ तथाहि-पश्यतु वत्स!-जलपूरितमार्गेषु, पकक्लिन्नेषु गच्छतः । स्खलित्वा पतितानेते, इसन्ति कुटजोत्कराः ॥ ३०६ ॥ निपतद्वारिधारौघहता ये यान्ति पापिनः । देशान्तरेषु तान्मेघो, मारयामीति गर्जति ॥ ३०७ ॥ एवं व्यवस्थिते तात!, मुच्यतां गमनादरः । यथेयन्तं स्थितः कालं, तिष्ठात्रैव तथाऽधुना ॥ ३०८ ॥ किं च-च्छन्नत्र बहुः कालो, न दोषाय गुणावहः । यतः सोऽनुक्षणं वत्स!, जायते तव वृद्धये ॥ ३०९ ॥ एवं भवतु तेनोक्ते, स्वदेशापुनर्मासचतुष्टयम् । स्थित्वा समागतौ गेहे, हृष्टौ स्वस्रीयमातुलौ ॥ ३१० ॥ अथ प्रविष्टौ तौ गेहे, दत्तास्थाने शुभोदये । भार्यायुक्ते च गमः तस्यैव, निकटस्थे विचक्षणे ॥ ३११ ॥ ततो विधाय सद्भक्त्या, प्रणामं विहिताजली । तेषां पुरो निविष्टौ तौ, विनयाच्छुद्धभूतले ॥ ३१२ ॥ बलादुत्थाप्य बुद्ध्याऽसौ, विमर्शः स्निग्धचेतसा । आलिङ्गितः प्रयत्नेन, तद्भ; च पुनः पुनः ॥ ३१३ ॥ प्रकर्षोऽपि समालिङ्ग्य, स्नेहनिर्भरमानसैः । निजाके स्थापितः सर्वैः, परिपाट्याऽतिवल्लभः ।। ३१४ ॥ आघ्रातो मूर्धदेशे च, कुशलं च मुहुर्मुहुः । आ
॥४५७॥ | नन्दोदकपूर्णाक्षैः, पृष्टः सर्वैः समातुलः ॥ ३१५ ।। ततो यथा विनिर्गत्य, गेहाबाह्येषु हिण्डितौ । ततोऽन्तरङ्गदेशेषु, यथा पर्यटितौ पुनः
Inn Education
For Private
Personal Use Only