________________
का
उपमितोऽनेन हेतुना ।। २३० ॥ तृतीयोऽवधिनामायं, सद्बोधस्य वयस्यकः । अनेकरूपविस्तारकारकोऽयमुदाहृतः ॥ २३१ ॥ कचिदीर्घ कचि-18|सद्धोधाच. ४-अ. खं, कचित् स्तोकं कचिद्बहु । वस्तुजातं जगत्यत्र, विलोकयति लीलया ॥ २३२ ॥ चतुर्थः पुरुषो वत्स!, मनःपर्यायनामकः । सा
वगती: क्षात्करोति वीर्येण, परेषां यन्मनोगतम् ॥ २३३ ॥ मनुष्यलोके नास्त्यत्र, चित्तं तत्तात! किञ्चन । अनेन यन्न दृश्येत, धीमता भाववे॥४५३॥
| दिना ॥ २३४ ॥ पञ्चमः पुरुषो वत्स!, केवलो नाम विश्रुतः । निःशेषज्ञेयविस्तारमेष पश्यति सर्वदा ॥ २३५ ॥ निर्वृतिं नगरी यान्ति, ये जना जैनसत्पुरात् । तेषामेष प्रकृत्यैव, नायकः पुरुषोत्तमः ॥ २३६ ॥ तदेष पञ्चभिर्वत्स!, वयस्यैः परिवारितः । सद्बोधसचिवो लोके, साक्षादिव दिवाकरः ॥ २३७ ॥ प्रकर्षेणोदितं माम!, स सन्तोषमहीपतिः । न दर्शितस्त्वयाऽद्यापि, यत्र मेऽत्यन्त
संतोषकौतुकम् ॥ २३८ ॥ ततस्तन्मातुलेनोक्तं, वत्स! योऽयं पुरः स्थितः । संयमस्य स विज्ञेयः, सन्तोषो नात्र संशयः ॥ २३९ ॥ प्रकर्षेणोक्तम्-यस्योपरि समायाता, महामोहादिभूभुजः । विक्षेपेण स सन्तोषो, नैप कि मूलनायकः? ॥ २४० ॥ विमर्शनोदितं वत्स !,
नैवायं मूलनायकः । चारित्रधर्मराजस्य, पदातिरिति गृह्यताम् ॥ २४१॥ शूरो नीतिपरो दक्षः, सन्धिविग्रहवेदकः । तेनैष तनपालत्वे, ला नियुक्तो मूलभूभुजा ॥ २४२ ॥ संपूर्णबलसामघ्या, भ्रमतोदामलीलया। अनेन स्पर्शनादीनि, तानि दृष्टानि कुत्रचित् ॥ २४३ ॥ तता
| ऽभिभूय तान्येष, स्वमाहात्म्येन निवृतौ । नयति स्म जनं कश्चिदुलेनैषां महीभुजाम ॥२४४॥ ततो विज्ञाय वृत्तान्तमेनं ते जनवा| तेया । महामोहादिभूपालाश्चलिता रणकाम्यया ॥ २४५ ॥ ततस्तैः स्वधिया वत्स!, कल्पितो मूलनायकः । पदातिरपि सन्तोषस्तत्रद | हन्त कारणम् ॥ २४६ ॥ तावन्मात्रं जनो वेत्ति, यावन्मात्रं किलेक्षते । यतः सितोदरोऽपीह, कृष्णः सोऽभिधीयते ॥ २४७ ॥ ॥४५३॥ अनेन स्पैर्शनादीनि, निहतानीति वार्तया । अस्योपरि यथा रोषस्तेषां शेषेषु नो तथा ॥२४८ ॥ सन्तोषमुररीकृत्य, ततो विग्रहवाञ्छया ।
(राजस्य, पदातिाया, भ्रमतोदामलीलयां महीभुजाम पितो मूलनायकः सोऽभिधी
245
Jain Educat
onal
For Private
Personal Use Only
w.jainelibrary.org