________________
उपमितौ
च. ४-प्र. ॥ ४५४ ॥
महामोहादयो वत्स !, खपुरेभ्यो विनिर्गताः ॥ २४९ ॥ चित्तवृत्तिमहाटव्यां, रणमेषामनेकशः । संजातं न च संजातौ स्फुटौ जयपराजयौ ॥ २५० ॥ यतः - कचिज्जयति सन्तोषस्तत्रपाठोऽरिसंहतिम् । प्रभवन्ति कचित्तेऽपि महामोहादिभूभुजः ॥ २५९ ॥ एवं च स्थिते - सदा सैन्यद्वयस्यास्य, रुषाऽन्योऽन्यं जिगीषतः । कालो गच्छति पद्माक्ष!, न जाने किं भविष्यति ? ॥ २५२ ॥ स एष दर्शितस्तुभ्यं मया सन्तोषतन्त्रपः । आख्यातञ्चास्य वृत्तान्तो, यत्र तेऽत्यन्तकौतुकम् ।। २५३ ।। या त्वस्य पार्श्वे पद्माक्षी, दृश्यते वत्स ! बालिका । सा निष्पिपासिता नाम भार्याऽस्यैव वरानना ।। २५४ ॥ शब्दरूपरसस्पर्शगन्धेषु सुधियां मनः । निस्तृष्णकं करोत्येषा, रागद्वेषविवर्जितम् ॥ २५५ ॥ लाभालाभे सुखे दुःखे, सुन्दरेऽसुन्दरेऽपि च । तथाऽऽहारादिके जाते, सन्तुष्टिं जनयत्यलम् ॥ २५६ ॥ तदेवं वत्स ! बुध्यस्व निर्विकल्पेन चेतसा । चारित्रधर्मराजोऽत्र, नायकः परमार्थतः ॥ २५७ ॥ अस्य च - यतिधर्मः सुतो ज्यायान्, गृहिधर्मः कनिष्ठकः । मन्त्री सद्बोधनामायं निविष्टो राज्यचिन्तकः ॥ २५८ ॥ महत्तमस्तु विज्ञेयः सम्यग्दर्शन नामकः । सन्तोषस्तनपालोऽयमेवं वत्सावधारय ॥ २५९ ॥ महामोहादयः सर्वे यथा भुवनतापकाः । तथैते वत्स ! विज्ञेया, भुवनाहादकारिणः ॥ २६० ॥ एते हि जगदालम्बा, एते हितविधायकाः । एते समस्तजन्तूनां पारमार्थिकबान्धवाः ॥ २६१ ॥ एते निरन्तसंसारसागरोत्तारकारकाः । अनन्ताहादसन्दोहदायका जगतो मताः ॥ २६२ ॥ चारित्रधर्मराजाद्याः सर्वेऽप्येते नरेश्वराः । सुखहेतव एवात्र, सर्वेषामपि देहिनाम् ॥ २६३ ॥ तदेते स्वाङ्गिकास्तात !, तावदित्थं मयाऽखिलाः । चारित्रधर्मराजस्य, बान्धवास्ते निवेदिताः ॥ २६४ ॥ ये त्वमी वेदिका - ऽभ्यर्णे, वर्तन्ते मण्डपस्थिताः । शुभाशयादयस्तात !, तेऽप्यस्यैव पदातयः ॥ २६५ ॥ अस्यादेशेन कुर्वन्ति, सुन्दराणि सदा जने । एते कार्याणि भूपाला, निर्मिध्यममृतोपमाः ॥ २६६ ॥ किं च - मनुष्या योषितो डिम्भा, ये लोकाः सुखहेतवः । विवर्तन्ते समस्तास्ते, मध्ये
Jain Education Itional
For Private & Personal Use Only
निष्पिपासिता
।। ४५४ ॥
ww.jainelibrary.org