SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥४५२॥ सद्बोधावगती ॥ २११ ॥ सम्यग्दर्शनसंज्ञस्य, तस्मादत्र व्यवस्थितः । स एव शत्रुः परमो, मिथ्यादर्शननामकः ॥ २१२ ॥ एवं च स्थिते-त्रिरूपश्च | भवत्येष, किञ्चिदासाद्य कारणम् । क्षयेण प्रतिपक्षस्य, प्रशमेनोभयेन वा ॥ २१३ ॥ तच्च रूपत्रयं वत्स!, जायेतास्य स्वभावतः । यद्वा संपादयत्येष, मत्री सद्बोधनामकः ॥ २१४ ॥ अयं हि सचिवो वत्स!, सद्बोधो भवनोदरे । तन्नास्ति यन्न जानीते, पुरुषार्थप्रसाधकम् | M॥२१५ ॥ भवद्भूतभविष्यत्सु, भावेषु भवभाविषु । विज्ञातुं प्रभवत्येष, सूक्ष्मव्यवहितेषु च ॥ २१६ ॥ किं चात्र बहुनोक्तेन?, जगदेष & चराचरम् । अनन्तद्रव्यपर्याय, वीक्षते विमलेक्षणः ।। २१७ ॥ निपुणो नीतिमार्गेषु, वत्सलश्च महीपतेः । चिन्तको राज्यकार्याणां, बले च विहितादरः ।। २१८ ॥ प्रियो महत्तमस्योञ्चैस्तस्य च स्थिरताकरः । सकलेऽपि जगत्यत्र, सचिवो नास्त्यमूदृशः ॥ २१९ ॥ किं च -ज्ञानसंवरणस्यायं, प्रतिपक्षतया स्थितः । क्षयोपशमतस्तस्य, क्षयाच द्विविधो मतः ॥ २२० ॥ इयं तु निकटे वत्स!, निर्मलाङ्गी | सुलोचना । मत्रिणोऽवगतिर्नाम, भार्याऽस्यैव वरानना ॥ २२१ ॥ स्वरूपं जीवितं प्राणाः, सर्वस्वं वर्ततेऽनघा । इयमस्य सदा पत्नी, शरीराव्यतिरेकिणी ॥ २२२ ।। तथा य एते पञ्च दृश्यन्ते, त इमे पुरुषोत्तमाः । अस्यैव तु सद्बोधस्य, स्वाङ्गीभूता वयस्यकाः॥२२३॥ आद्योऽत्राभिनिबोधोऽयं, वयस्यः पुरवासिनाम् । इन्द्रियानिन्द्रियज्ञानं, जनानां जनयत्यलम् ।। २२४ ॥ द्वितीयः पुरुषो भद्र!, प्रसिद्धोऽयं सदागमः । यस्यादेशे स्थितं सर्व, पुरमेतन्न संशयः ॥ २२५ ॥ कार्याणि मत्रयत्वेष, निखिलान्यपि भूभुजाम् । वचःपाटवयुक्तोऽयं, मूकाः शेषा मनुष्यकाः ॥ २२६ ॥ यतः सदागमस्यास्य, दृष्ट्वा वचनकौशलम् । सद्बोधोऽनेन भूपेन, मत्रित्वे स्थापितः पुरा ॥ २२७ ॥ अयं सदागमोऽमीषां, सर्वेषां वत्स! भूभुजाम् । बहिश्च जैनलोकानां, ज्ञेयः परमकारणम् ।। २२८ ।। अनेन रहितं वत्स., न कदाचि-T दिदं बलम् । पुरं चेदं जगत्यत्र, स्वरूपेण प्रकाशते ॥ २२९ ॥ तदेष सर्वकार्याणामुपदेष्टा सदागमः । द्वितीयः पुरुषो वत्स!, प्रधानो-| ॐॐॐॐ ASSES ॥४५२।। Jain Education a l For Private & Personel Use Only Gww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy