SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥४५२॥ सद्बोधावगती ॥ २११ ॥ सम्यग्दर्शनसंज्ञस्य, तस्मादत्र व्यवस्थितः । स एव शत्रुः परमो, मिथ्यादर्शननामकः ॥ २१२ ॥ एवं च स्थिते-त्रिरूपश्च | भवत्येष, किञ्चिदासाद्य कारणम् । क्षयेण प्रतिपक्षस्य, प्रशमेनोभयेन वा ॥ २१३ ॥ तच्च रूपत्रयं वत्स!, जायेतास्य स्वभावतः । यद्वा संपादयत्येष, मत्री सद्बोधनामकः ॥ २१४ ॥ अयं हि सचिवो वत्स!, सद्बोधो भवनोदरे । तन्नास्ति यन्न जानीते, पुरुषार्थप्रसाधकम् | M॥२१५ ॥ भवद्भूतभविष्यत्सु, भावेषु भवभाविषु । विज्ञातुं प्रभवत्येष, सूक्ष्मव्यवहितेषु च ॥ २१६ ॥ किं चात्र बहुनोक्तेन?, जगदेष & चराचरम् । अनन्तद्रव्यपर्याय, वीक्षते विमलेक्षणः ।। २१७ ॥ निपुणो नीतिमार्गेषु, वत्सलश्च महीपतेः । चिन्तको राज्यकार्याणां, बले च विहितादरः ।। २१८ ॥ प्रियो महत्तमस्योञ्चैस्तस्य च स्थिरताकरः । सकलेऽपि जगत्यत्र, सचिवो नास्त्यमूदृशः ॥ २१९ ॥ किं च -ज्ञानसंवरणस्यायं, प्रतिपक्षतया स्थितः । क्षयोपशमतस्तस्य, क्षयाच द्विविधो मतः ॥ २२० ॥ इयं तु निकटे वत्स!, निर्मलाङ्गी | सुलोचना । मत्रिणोऽवगतिर्नाम, भार्याऽस्यैव वरानना ॥ २२१ ॥ स्वरूपं जीवितं प्राणाः, सर्वस्वं वर्ततेऽनघा । इयमस्य सदा पत्नी, शरीराव्यतिरेकिणी ॥ २२२ ।। तथा य एते पञ्च दृश्यन्ते, त इमे पुरुषोत्तमाः । अस्यैव तु सद्बोधस्य, स्वाङ्गीभूता वयस्यकाः॥२२३॥ आद्योऽत्राभिनिबोधोऽयं, वयस्यः पुरवासिनाम् । इन्द्रियानिन्द्रियज्ञानं, जनानां जनयत्यलम् ।। २२४ ॥ द्वितीयः पुरुषो भद्र!, प्रसिद्धोऽयं सदागमः । यस्यादेशे स्थितं सर्व, पुरमेतन्न संशयः ॥ २२५ ॥ कार्याणि मत्रयत्वेष, निखिलान्यपि भूभुजाम् । वचःपाटवयुक्तोऽयं, मूकाः शेषा मनुष्यकाः ॥ २२६ ॥ यतः सदागमस्यास्य, दृष्ट्वा वचनकौशलम् । सद्बोधोऽनेन भूपेन, मत्रित्वे स्थापितः पुरा ॥ २२७ ॥ अयं सदागमोऽमीषां, सर्वेषां वत्स! भूभुजाम् । बहिश्च जैनलोकानां, ज्ञेयः परमकारणम् ।। २२८ ।। अनेन रहितं वत्स., न कदाचि-T दिदं बलम् । पुरं चेदं जगत्यत्र, स्वरूपेण प्रकाशते ॥ २२९ ॥ तदेष सर्वकार्याणामुपदेष्टा सदागमः । द्वितीयः पुरुषो वत्स!, प्रधानो-| ॐॐॐॐ ASSES ॥४५२।। Jain Education a l For Private & Personel Use Only Gww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy