________________
उपमितौ च. ४-प्र.
चारित्रधमराजवर्णनं दा
॥४४७॥
नादीमि
वाणि
वत्स!, साधूनां शीलमुत्तमम् ।। ११९ ॥ तेभ्यः संपूर्णमादेश, सुखमेतत्प्रयच्छति । किश्चिन्मात्रं प्रकुर्वन्ति, वचोऽस्य मुनिशेषकाः
१२०॥ शीलाख्यं वदनं वत्स!, तदिदं वर्णितं मया । तृतीयं तु तपोनाम, वदनं तन्निबोध मे ।। १२१ ॥ चारित्रधर्मराजस्य, वकमेतन्मनोहरम् । आकाङ्घातिविनाशेन, जनेऽत्र कुरुते सुखम् ॥ १२२ ॥ विशिष्टज्ञानसंवेगशमसातकरं परम् । तपःसंज्ञमिदं वक्रमव्याबाघसुखावहम् ।। १२३ ।। इदमस्य नरेन्द्रस्य, वदनं वीक्ष्य सज्जनाः । आराध्य च महासरवा, निवृति यान्ति' लीलया ॥ १२४॥ तदिदं ते तपोनाम, भूपतेर्वदनं मया । कथितं साम्प्रतं वक्ष्ये, चतुर्थ शुद्धभावनम् ॥ १२५ ॥ स्मृतं निरीक्षितं भक्त्या, सज्जनैरिदमखसा । निःशेषपापसातदलनं कुरुते मुखम् ।। १२६ ॥ अस्यादेशादिमे जैना, भावयन्तीह सज्जनाः।-"समस्तवस्तुविस्तारमतितुच्छं "विनश्वरम् ।। १२७ ॥ नास्तीह शरणं लोके, दुःखपीडितदेहिनाम् । एकश्च जायते जन्तुम्रियते च भवोदधौ ।। १२८ ॥ यदिदं देहिनां "किश्चिञ्चित्ताबन्धविधायकम् । शरीरं धनमन्यद्वा, सर्व तद्भिनमात्मनः ॥ १२९ ।। मूत्राबकेदजम्बालपूरितं च कलेवरम् । तदत्रात्यन्त"बीभत्से, शुचिगन्धो न विद्यते ॥ १३० ॥ माता भूत्वा पुनर्भार्या, भवत्यत्र भवोदधौ । कर्मास्त्रवो भवत्येव, पापानुष्ठानकारिणाम्
॥ १३१॥ निवृत्तानां सदाचाराज्जायते वरसंवरः । तपसा तु भवत्येव, सततं कर्मनिर्जरा ॥ १३२ ।। मृतक जाताश्च सर्वेषु, लोको"देशेषु जन्तवः । भक्षितानि च सर्वेषु, रूपिद्रव्याणि जन्तुना ॥ १३३ ॥ संसारसागरोत्तारकारकश्च जिनोदितः । धर्मः सुदुर्लभा चात्र, "बोधिः सर्वज्ञदर्शने ।। १३४ ।। अष्टभिः कुलकम् ।” ये चैवं भावयन्त्यत्र, श्रद्धासंशुद्धबुद्धयः । आदेशं वदनस्यास्ख, ते धन्यास्ते मनखिनः ।। १३५ ।। चारित्रधर्मराजस्य, वदनं चारुदर्शनम् । इदं वत्स! प्रकृत्यैव, सर्वसौख्यकरं परम् ॥ १३६ ॥ तदेष क्दनैर्वत्स!,8 चतुर्भिः पुरवासिनाम् । एषां निःशेषसौख्यानि, करोत्येव महानृपः ॥ १३७ ॥ किंच-सर्वेषामेव सुखदो, भुवनोदरचारिणाम् । वत्स!
Jain Education
For Private
Personel Use Only
jainelibrary.org
LAPT