SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ORG उपमिती पीठबन्धः अर्थकामसक्ताना चेष्टाः संकल्पमालाश्च ॥४१॥ "चाकलयति मोहविडम्बितेन मनसा यदुतेयं ममानुरक्ता हितकारिणी, न चान्येदृशी सौन्दयौदार्यसौभाग्यादिगुणकलापकलिता जगति "विद्यते, अथ कदाचित्तां मातेति भगिनीति देवतेत्यपि मन्यमानः परो वीक्षते, ततोऽसौ मन्दः मोहात् क्रुध्यतीव विह्वलीभवतीव मूर्च्छतीव “म्रियत इव किं करोमीति न जानीते, अथ सा वियुज्यते म्रियते वा ततोऽसावप्याक्रन्दति परिदेवते म्रियते वा, अथ सा कथञ्चिहुः- |"शीलतया परपुरुषचारिणी स्यात् परपुरुषा वा बलात्तां समाक्रम्य गृहीयुः ततोऽसौ महामोहविह्वलो यावजीवं हृदयदाहेन जीर्यते प्राणैर्वा "वियुज्यते दुःखासिकातिरेकेणेति”। तदेवमेकैकवस्तुप्रतिवन्धबद्धहृदयोऽयं जीवो दुःखपरम्परामासादयति, तथापि विपर्यस्ततया तद्रक्षणप्रवणमनाः सर्वथा शङ्कते ममेदमयं हरिष्यतीति । यथा च-तस्य रोरस्य तेन कदन्नेनोदरपूरं पूरितस्यापि न तृप्तिः संपद्यते, प्रत्युत प्रतिक्षणं सुतरां बुभुक्षाऽभिवर्धते' इत्युक्तं, तथाऽस्यापि जीवस्यानेन धनविषयकलत्रादिना कदन्नप्रायेण पूर्यमाणस्यापि नाभिलाषविच्छेदः, किन्तर्हि ?, गाढतरमभिवर्द्धते तत्तर्षः । तथाहि-यदि कथञ्चिद्रविणशतं सम्पद्यते ततः सहस्रमभिवाञ्छति अथ तदपि सजायते ततो लक्षमाकाङ्क्षति तत्सम्पत्तावपि कोटीमभिलपति तल्लाभे राज्यं प्रार्थयति अथ राजा जायते ततश्चक्रवर्तित्वं मृगयते तत्सम्भवेऽपि विबुधत्वमन्विच्छति अथ देवत्वमप्यास्कन्देत्ततः शक्रत्वमन्वेषयते अथेन्द्रतामपि लभते ततोऽप्युत्तरोत्तरकल्पाधिपतित्वपिपासापर्यासितचेतसो नास्त्येवास्य जीवस्य मनोरथपरिपूर्तिः, यथा हि गाढग्रीष्मे समन्ताद्दवदाहतापितशरीरस्य पिपासाभिभूतचेतनस्य मूर्च्छया पतितस्य कस्यचित्पथिकस्य तत्रैव स्वप्नदर्शने सुबहून्यपि प्रबल कल्लोलमालाकुलानि महाजलाशयकदम्बकानि पीयमानान्यपि न तर्षापकर्षकं मनागपि सम्पादयन्ति तथाऽस्यापि जीवस्य धनविषयादीनि, तथाहि-अनादौ संसारे विपरिवर्त्तमानेनानन्तशः प्राप्तपूर्वा देवभवेषु निरुपचरितशब्दाद्युपभोगाः आसादितान्यनन्तान्यनर्धेयरत्नकूटानि विलसितं खण्डितरतिविभ्रमैः सह विलासिनीसाथै ः क्रीडितं त्रिभुवनातिशायिनीभिर्नानाक्रीडाभिः,र ॥४१॥ Jain Education Intematosa For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy