SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अर्थकाम सक्तान चेष्टाः संकल्पमालाश्च उपमितौ "मां प्रतार्य नूनमेतद् ग्रहीतुमिच्छन्ति, तथाविधगाढमू विषाभिभूतचित्तश्चिन्तयत्येवं-हन्त धक्ष्यते ममैतद्रविणजातं चित्रभानुना प्लावयि- पीठबन्धः "प्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः अत: सुरक्षितं करोमि, ततोऽसहायः शेषजनाविश्रम्भितया रात्रावुत्थाय खनत्यतिदूरं "भूतलं, निधत्ते तत्तत्र निभृतसञ्चारः, पुनः पूरयित्वा गर्त कुरुते समं भूतलं, विकिरति तस्योपरि धूलिकचवरादिकं, सम्पादयति किला- ॥४०॥ | "लक्ष्यं स्वाकूतेन, मा पुनर्न ज्ञास्यामि स्वदेशमिति विधत्ते विविधानि चिह्नानि, प्रयोजनान्तरेण तद्देशेन सञ्चरन्तमपरं जनं मुहुर्मुहुर्निभा| "लयति, कथश्चित्तद्देशे यान्तीं तदृष्टिं शङ्कते-आ ज्ञातमेतेन, अतो मूर्छादन्दह्यमानमानसो न लभते रात्रौ निद्रा, पुनरुत्थाय तत्प्रदेशात्त"दुत्खनति, निधत्ते च प्रदेशान्तरे, निरीक्षते पुनः पुनर्दिगन्तरेषु सभयं निक्षिपश्चक्षुः, यदुत-मां कश्चिद्रक्ष्यतीति, व्यापारान्तरमपि स "केवलं कायेन करोति चेतस्तु तत्प्रतिबन्धबन्धनबद्धं ततः स्थानादन्यत्र पदमपि न चलतीति । अथ कथञ्चित्तथाविधयत्नशतैरपि तेन रक्ष्य"माणमपरो लक्षयेत् गृह्णीयाच ततोऽसावकाण्डवज्रपातनिर्दलितशरीर इव हा तात! हा मातर्हा भ्रातरिति विक्लवमारा(र)ट्यमानः सकलविवेकिलोकं करुणापरीतचित्तता प्रापयति, अतिमूर्छाव्याघ्राघातचेतनो म्रियते वा, तदिदं धनलवप्रतिबद्धचेतोवृत्तीनां विलसितमुपदर्शितम् । तथा गृहिणीप्रतिबन्धप्रहगृहीतविग्रहः अपि ईर्ष्याशल्यवितुद्यमानमानसः खल्वेष जीवस्तस्याः परवीक्षणरक्षणाक्षणिकः सन्न निःसरति गेहात् न "स्वपिति रजन्यां त्यजति मातापितरौ शिथिलयति बन्धुवर्गान न ददाति परमसुहृदोऽपि स्वगृहे ढोकं अवधीरयति धर्मकार्याणि न गण "यति लोकवचनीयतां, केवलं तस्या एव मुखमनवरतमीक्षमाणस्तामेव च परमात्ममूर्त्तिमिव योगी निवृत्ताशेषव्यापारो ध्यायन्नेवास्ते, तस्य मच यदेव सा कुरुते तत्सुन्दरं यदेव सा भाषते तदेवानन्दकारि यत्सा विचिन्तयति तदेवेङ्गिताकारैर्विज्ञायासौ सम्पादनायाह मन्यते, एव १व्याघातचेतनः प्र. ॥४०॥ For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy