________________
उपमिती पीठबन्धः ॥३९॥
"हृदयं अभ्यस्यति सकलं कलाकलापं किं बहुना? तन्नास्ति यन्न करोति तन्न विद्यते यन्न वदति तन्न सम्भवति यन्न चिन्तयति, न च तथा-|
KA अर्थकाम| "प्ययमनवरतमितश्चेतश्च तदर्थ बंभ्रम्यमाणः प्रागविहितपुण्यशून्यः समभिलषितार्थस्य तिलतुषत्रिभागमात्रमपि प्राप्नोति, केवलं स्वचित्तस
सक्तानां | "न्तापातरौद्रध्याने गुरुतरकर्मभारं तहारेण दुर्गतिं चात्मनोऽभिवर्द्धयतीति”। यदि पुनः कथञ्चित्पूर्वविहितपुण्यलवः स्यात् ततोऽयं जीव
चेष्टाः सं. स्तदुदयेन धनसहस्रादिकं वा अभिमतभार्या वा स्वशरीरसौन्दर्य वा विनीतपरिजनं वा धान्यसञ्चयं वा कतिचिद्रामप्रभुत्वं वा राज्यादिकं
कल्पमावा प्राप्नुयादपि, ततश्च यथाऽसौ द्रमकः 'कदन्नलेशमात्रलाभात्तुष्टः' तथाऽयमपि जीवो माद्यति हृदये मदसन्निपातग्रस्तहृदयश्च नाकर्णयति
लाश्च | विज्ञानानि न पश्यति शेषलोकं न नामयति ग्रीवां न भाषते प्रगुणवचनैः अकाण्ड एव निमीलयति चक्षुषी अपमानयति गुरुसंहतिमपि, |अतोऽयमेवंविधतुच्छाभिप्रायहतस्वरूपो जीवो ज्ञानादिरत्नभरपरिपूर्णतया परमेश्वराणां भगवतां मुनिपुङ्गवानां क्षुद्रद्रमकेभ्योऽप्यधमतमः कथं न प्रतिभासते ?, यदा पशुभावे नरकेषु वा वर्ततेऽयं जीवस्तदा विशेषतो द्रमकोपमामतिलेङ्घयति, यतो विवेकधनानां महर्षीणां य एते | किल शक्रादयो देवा महर्द्धयो महायुतयो निरुपचरितशब्दादिविषयोपभोगभाजनं द्राघीयःस्थितिकास्तेऽपि यदि सम्यग्दर्शनरत्नविकलाः स्युस्तदा महादारिद्यभराक्रान्तमूर्तयो विद्युल्लताविलसितचटुलजीविताश्च प्रतिभासन्ते, किं पुनः शेषाः संसारोदरविवरवर्त्तिनो जन्तव इति ?। यथा चासौ द्रमकः अवज्ञया जनैर्दत्तं तत्कदन्नं भुजानः शक्रादपि शङ्कते, यदुत-'अयं ममैतदुद्दालयिष्यति', तथाऽयमपि जीवो महामोहोपहतः “तद्रविणकलत्रादिकं कथञ्चित्तावता क्लेशजालेनोपार्जितं यदाऽनुभवति तदा बिभेति तस्करेभ्यः त्रस्यति नरपतिभ्यः कम्पते "भयेन दायादेभ्यः उद्विजते याचकेभ्यः, किं बहुनाऽत्र जल्पितेन ?, अत्यन्तनिःस्पृहमुनिपुङ्गवेभ्योऽपि शङ्कते यदुतैते महता वचनरचनाटोपेन ॥३९॥
१५. मार्तध्यानेन, २ नास्ति प्रत्यन्तरे. ३ भातुष्ट. पा. ४ न विज्ञपयति प्र. ५तिलते प्र.
Jain Education DIY
For Private & Personal Use Only
Collainelibrary.org