________________
उपमितौ
च. ४-प्र. .॥४२८॥
काऽतुला । न्यूनता लघुता वेषविज्ञानफलहीनता ॥ २५२ ॥ इत्याद्याः परिवारेऽस्या, भवन्ति बहवो जनाः । पुरेऽत्र यद्लादेषा, बम्ध्रमीति बलोद्धरा ॥ २५३ ॥ अस्ति प्रयुक्ता तेनैव, सुप्रसन्नेन देहिनाम् । नाना सुभगता नाम्ना, प्रख्याता जनमोदिनी ॥ २५४ ।। सा सौष्ठवमनस्तोषगर्वगौरवसम्मदैः । आयत्यपरिभूताद्यैः, परिवारितविग्रहा ॥ २५५ ॥ व्रजन्ती भवचक्रेऽत्र, जनमानन्दनिर्भरम् । करोति सखितं मान्यं, निःशेषजनवल्लभम् ॥२५६॥ तस्याश्च प्रतिपक्षत्वादियं दुर्भगताऽधमा । उन्मूलनकरी तात!, करिणीव लताततेः॥२५७॥ अतः सोन्मूलिता येषामेनया हितकारिणी । ते प्रकृत्यैव जायन्ते, जनानां गाढमप्रियाः ॥ २५८ ।। स्वभत्रेऽपि न रोचन्ते, परेभ्यो नितरां पुनः । बन्धुभ्योऽपि न भासन्ते, जना दुर्भगताहताः॥ २५९॥ गम्यत्वात्ते सपनानां, वल्लभानामवल्लभाः । नयन्ति क्लेशतः कालमात्मनिन्दापरायणाः ।। २६० ।। तदेषाऽपि समासेन, वत्स! दुर्भगता मया । तुभ्यं निगदिता याऽसावुद्दिष्टा सप्तमी पुरा ॥ २६१ ॥ एवं च स्थिते-जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, उद्दिष्टाः क्रमशो यथा ।। २६२ ॥ एता या यत्प्रयुक्ता वा, यद्वीर्या यत्परिच्छदाः। चेष्टन्ते यस्य बाधायै, निर्दिष्टाः क्रमशस्तथा ॥२६३।। युग्मम् । एताश्चैवं विवलान्ते, विपक्षक्षयमुच्चकैः । कुर्वाणा भवचक्रेऽत्र, लोकपीडनतत्पराः ।। २६४ ।। प्रकर्षेणोदितं माम!, किमासां विनिवारकाः । लोकपाला न विद्यन्ते, नगरेऽत्र नृपादयः ? ॥ २६५ ।। विमर्शेनोदितं वत्स!, नैताः शक्या नृपादिभिः । निवारयितुमित्यत्र, कारणं ते निवेदये ॥ २६६ ।। ये केचिद्वीर्यभूयिष्ठाः, प्रभवो भवनोदरे । तेष्वपि प्रभवन्येताः, सर्वेषु प्रसभं मुदा ॥ २६७ ॥ सर्वत्र विचरन्तीनामासामुद्दामलीलया । गजानामिव मत्तानां, नास्ति मल्लो जगत्रये ॥२६७॥ स्वप्रयोजनवीर्येण, विलसन्तीनिरङ्कुशं । को नाम भुवने साक्षादेताः स्खलयितुं क्षमः ? ॥२६८॥ प्रकर्षणोक्तं—माम! तत्कि पुरुषेण न यतितव्यमेवामूषां निराकरणे?, विमर्शेनोक्तं वत्स! निश्चयतो निराकरणे न यतितव्यमेव, यतो न
| निश्चयव्यवहारौ
॥४९
Jain Education Intalnih
For Private & Personel Use Only
N
ainelibrary.org