________________
उपमितौ च. ४-प्र.
॥४२४॥
एव सदैश्वर्यादियमुद्दामचारिणी । किञ्चिन्नापेक्षते वत्स!, विचरन्ती यथेच्छया ॥ १७६ ॥ ईश्वरेषु दरिद्रेषु, वृद्धेषु तरुणेषु च । दुर्बलेषु बलिष्ठेषु, धीरेषु करुणेषु च ॥ १७७ ॥ आपद्गतेषु हृष्टेषु, वैरभाजिषु बन्धुषु । तापसेषु गृहस्थेषु, समेषु विषमेषु च ॥ १७८ ॥ किं चात्र बहुनोक्तेन ?, सर्वावस्थागतेष्वियम् । प्रभवत्येव लोकेषु, भवचक्रनिवासिषु ॥ १७९ ॥ अस्त्यङ्गभूता सद्भार्या, जीविका नाम विश्रुता । तस्यायुर्नामनृपतेर्लोकाहादनतत्परा ॥ १८० ॥ तद्बलावतिष्ठन्ते, निजस्थानेष्वमी जनाः । अतो हितकरत्वेन, सा सर्वजनवल्लभा ॥ १८१ ॥ अतस्तां जीविका हत्वा, मृतिरेपा सुदारुणा । लोकं स्वस्थानतोऽन्यत्र, प्रेषयत्येव लीलया ॥ १८२ ॥ प्रहिताश्च तथा यान्ति, दृश्यन्ते न यथा पुनः । नीयन्ते च तथा केचिद्यथाऽसौ रिपुकम्पनः॥ १८३ ॥ व्रजन्तश्च धनं गेहं, बन्धुवर्ग परिच्छदम् । सर्व विमुच्य गच्छन्ति, मृत्यादेशेन ते जनाः ।। १८४ ॥ एकाकिनः कृतोद्योगाः, सुकृतेतरशम्बलाः । दीर्घ मार्ग प्रपद्यन्ते, सुखदुःखसमाकुलम् ॥ १८५ ॥ तन्निजास्तु तथा कृत्वा, रोदनाकन्दगुन्दलम् । लगन्ति स्वीयकृत्येषु, खादन्ति च पिबन्ति च ॥ १८६ ॥ विभजन्ते धनं भोगैयुध्यन्ते च तदर्थिनः । सारमेया इवासाद्य, किञ्चिदामिषखण्डकम् ।। १८७ ॥ तदर्थ तु कृताघौघास्ते जना दुःखकोटिभिः । केवलाः परिपीड्यन्ते, मृत्यादिष्टा बहिर्गताः ॥ १८८ ॥ एवं च स्थिते-निवेदिता मृतिर्वत्स!, नानाकारेषु धामसु । संचार्यते यया लोको, भवचक्रे मुहुर्मुहुः ॥ १८९ ॥ अधुना वर्ण्यमानेयं, खलताऽप्यवधार्यताम् । एतत्स्वरूपविज्ञाने, यद्यस्ति तव कौतुकम् ॥ १९० ॥ अस्ति पापोदयो नाम, सेनानीर्मूलभूपतेः । प्रयुक्ता तात! तेनैषा, खलता भवचक्रके ॥ १९१ ।। बहिनिमित्तमप्यस्याः, किल दुर्जनसङ्गमः ।। केवलं तत्त्वतः सोऽपि, पापोदयनिमित्तकः ॥ १९२ ॥ वीर्यमस्याः शरीरेषु, वर्तमानेयमुच्चकैः । कुरुते देहिनां दुष्टं, मनः पापपरायणम् ॥ १९३ ॥ शाठ्यपैशुन्यदौःशील्यवैभाष्यगुरुविप्लवाः। मित्रद्रोहकृतघ्नत्वनैर्लज्यमदमत्सराः ॥ १९४ ॥ मर्मोद्घट्टनवैयात्ये, परपीडननि
खलतास्वरूपं ॥४२४॥
Jain Education in
For Private & Personal Use Only
r
inelibrary.org