________________
उपमिती च.४-प्र.
वेश्याविपाकः
॥४०९॥
हाहेति जल्पन्तमुद्विग्नं तं खमातुलम् । प्रकर्षः प्राह ते माम!, किं व्यलीकस्य कारणम् ? ॥४७॥ स प्राह वसनच्छन्ना, पुष्पालकारभारिताम् । किमेनां निकटे त्वं नो, वीक्षसेऽशुचिकोष्ठिकाम् ? ॥४८॥ तदस्या दूरतः स्थित्वा, देशे गन्धविवर्जिते । वृत्तान्तो योऽत्र जायेत, पश्यावस्तं निराकुलौ ॥ ४९ ॥ निश्छिद्रा च भवेत् काचिदशुचेरपि कोष्ठिका । इयं तु नवभिारैः, क्षरत्येवातिमुत्कला ॥५०॥ तदहं क्षणमप्येकं, नात्र भोः स्थातुमुत्सहे । तुभ्यं शेपे शिरोऽनेन, गन्धेन मम दुष्यति ॥ ५१ ॥ प्रकर्षेणोदितं माम!, सत्यमेतन्न संशयः । ममापि नासिका व्याप्ता, गन्धेनोत्पादितारतिः ॥ ५२ ॥ तत्तूर्णमपसरावः, ततोऽपमृतौ विमर्शप्रकर्षों स्थितौ सविलोके दूरदेशे, अत्रान्तरे संप्राप्तो रमणः, तदनु चाकृष्टबाणः समागत एव भयसहितो मकरध्वजः, । दृष्टा रमणेन कुन्दकलिका, ततः प्रत्युज्जीवित इव सुधासेकसिक्त इव संप्राप्तरत्ननिधान इव महाराज्येऽभिषिक्त इव गतः परमहर्ष रमणः, अत्रान्तरे निर्गता निजगृहान्मदनमजरी, दृष्टस्तयाऽसौ, लक्षिता च सकिञ्चनता, ततः संज्ञिता कुन्दकलिका, निरीक्षितः कुन्दकलिकया रमणः, संजातः प्रहृष्टतरः, अत्रान्तरे विज्ञायावसरमाकर्णान्तमापूर्य विमुक्तो मकरध्वजेन शिलीमुखैः, ताडितस्तेन रमणः, गृहीताऽनेन कण्ठे कुन्दकलिका, प्रविष्टोऽभ्यन्तरे, निकटीभूता मदनमञ्जरी, समर्पितं रूपकादि सर्वखं, गृहीतमनया, कृतोऽसौ यथाजातः, ततोऽभिहितं मदनमञ्जर्या-वत्स! सुन्दरमनुष्ठितं भवता यदिहागतोऽसि, समुत्सुका त्वयि वत्सा कुन्दकलिका, किंतु भीमनृपतेः सुतश्चण्डो नाम राजपुत्रः साम्प्रतमिहाजिगमिषुर्वतते, तदत्रावलीनो भवतु वत्सः, एतच्चाकर्णयतो रमणस्य कृतो भयेन शरीरेऽनुप्रवेशः, अत्रान्तरे समागतो द्वारि चण्डः, समुल्लसितो बहुलकलकलः, विजम्भितो भयः, प्रकम्पितो रमणः, प्रविष्टश्चण्डः, दृष्टोऽनेन रमणः, गृहीतः क्रोधेन चण्डः, समाकृष्टाऽसिपुत्रिका,
१ वदामि. २ बाणः.
॥४०९॥
उ.भ. ३५
in Education
For Private & Personal Use Only
R
ainelibrary.org