________________
धनिचेष्टा
उपमिती च. ४-अ.
॥४०७॥
MAXILIAISRUSSANAS
"वत्येव तादृशम् । कारणं विरलानां भोः, केवलं तेन मीलकः ॥८॥ करोति वर्धनस्थैर्ये, अजातं जनयेद्धनम् । अत्यन्तदुर्लभं भद्र। "पुण्यं पुण्यानुबन्धि यत्।सायच-दयाभूतेषु वैराग्यं, विधिवद्गुरुपूजनम्। विशुद्धा शीलवृत्तिश्च,पुण्यं पुण्यानुबन्ध्यदन॥१०॥ "अथवा-परोपतापविरतिः, परानुग्रह एव च। स्वचित्तदमनं चैव, पुण्यं पुण्यानुबन्ध्यदः ॥११।। एतश्चान्यभवे धन्यैरुपात्तमि"हापि वा । स्थिरमेव धनं तेषां, सुमेरोः शिखरं यथा ॥१२॥ अन्यच्च ते महात्मानस्तत्पुण्यपरिढौकितम् । बाखं तुच्छ मलप्रायं, विज्ञाय "क्षणगत्वरम् ॥ १३॥ योजयन्ति शुभे स्थाने, स्वयं च परिभुञ्जते । न च तत्र धने मूच्छामाचरन्ति महाधियः ॥ १४ ॥ ततश्च तद्धनं "तेषां, सत्पुण्यावाप्तजन्मनाम् । इत्थं विशुद्धबुद्धीनां, जायते शुभकारणम् ॥ १५॥ निन्ये बाह्ये महानर्थकारणे मूञ्छिता धने । शून्यास्ते "दानभोगाभ्यां, ये पुनः क्षुद्रजन्तवः ।। १६ ॥ इहैव चित्तसन्तापं, घोरानर्थपरम्पराम् । यत्ते'लमन्ते पापिष्ठास्तत्र किं भद्र ! कौतुकम् ? "॥१७॥ तदत्र परमार्थोऽयं, मूर्छागौं धने सति । न कार्यों दानभोगौतु, कर्तव्यौ तत्त्ववेदिना ॥१८॥ यस्तु नैवं करोत्युच्चैः, "स वराको निरर्थकम् । अमूल्यकः कर्मकरः, केवलं परिताम्यति ॥१९॥ स्नेहदुर्नयगन्धोऽपि, वर्जनीयश्च जानता । अन्यथा जायते कष्टं, | "यथाऽस्य वणिजो महत् ॥ २०॥" यावत्स कथयत्येवं, बुद्धिसूनोः स्वमातुलः । अन्यस्तावत्समापनो, वृत्तान्तस्तं निबोधत ॥ २१ ॥ | दृष्टस्ताभ्यां युवा कश्चिदवतीर्णो वणिक्पथे । दुर्बलो मलिनः क्षामो, जरञ्चीवरधारकः ।। २२ ॥ आपणे प्रन्थिमुन्मोच्य, रूपकैस्तेन मोदकाः । स्रजः पर्णानि गन्धाश्च, क्रीतं वस्त्रयुगं तथा ॥ २३ ॥ गत्वा च निकटे वाप्यां, भक्षितं तेन भोजनम् । सन्मानितं सताम्बूलं, स्नातः संपूरितोदरः ।। २४ ।। बद्धश्चामोटकः पुष्पैः, सद्गन्धैर्वासितं वपुः । ततः परिहिते वस्ने, प्रस्थितो राजलीलया ॥ २५ ॥ निरीक्षतेऽभिमानेन, निजदेहं पुनः पुनः । समारयति चामोटं, गन्धमाघ्राय मोदते ॥२६॥ प्रकर्षेणोदितं माम!, क एष तरुणस्तथा
॥४०७॥
Jain Education
For Private & Personel Use Only
H
ainelibrary.org