________________
उपमितौ च. ४-प्र.
॥ ४०६ ॥
Jain Education
न तद्धनम् । न ते लोका न तत्तेजो, न गर्वो न च पौरुषम् ॥ ८ ॥ विमर्शेनोदितं वत्स !, सत्यमेतन्न विभ्रमः । अत एव न कुर्वन्ति, धनगर्व महाधियः ॥ ९ ॥ “धनं हि धर्मसंतप्तविहङ्गगलचश्चलम् । ग्रीष्मोष्माक्रान्तशार्दूलजिह्वातरलमीरितम् ॥ १० ॥ इन्द्रजालमिवाने"कदर्शिताद्भुतविभ्रमम् | क्षणदृष्टविनष्टं च, नीरबुद्बुदसन्निभम् ॥ ११ ॥ युग्मम् । अस्य वाणिजकस्येदं तात ! दुर्नयदोषतः । नष्टं महा"पदस्थानं, जातं च विविधं धनम् ॥ १२ ॥ इहान्येषां पुनर्भद्र!, दोषसंश्लेषवर्जिनाम् । अपि नश्येदिदं रिक्थं भवेच्च भयकारणम् ॥१३॥ " तथाहि - येऽपि फूत्कृत्य फूत्कृत्य, पादं मुञ्चन्ति भूतले । तेषामपि क्षणार्धेन, नश्यतीदं न संशयः ॥ १४ ॥ प्राप्नुवन्ति च दुःखानि, “धनिनो धनदोषतः । जलज्वलनलुण्टाकराजदायादतस्करैः ।। १५ ।। अन्यच्चेदं धनं वत्स !, मेघजालमिवातुलम् । हतं प्रचण्डवातेन, “यदा याति कथञ्चन ॥ १६ ॥ तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलीनतां नानुवर्तयति कुलक्रमं नाकलयति "शीलं नापेक्षते पाण्डित्यं नालोचयति सौन्दर्यं नावरुध्यते धर्मपरतां नाद्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदा"चारपरायणतां न परिपालयति चिरस्नेहभावं नोररीकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम्, किं तर्हि ? गन्धर्वनगराकारे, “पश्यतामेव देहिनाम् । तद्धनं क्षणमात्रेण, क्वापि न ज्ञायते गतम् ? ॥ १ ॥ अर्जितं बहुभिः केशैः, पालितं जीवितं यथा । नष्टं तु "यादृङ् नृत्यत्सु, नटेष्वपि तदीक्षितम् ॥ २ | तथाप्यमी महामोह निहताः क्षुद्रजन्तवः । ईदृशेऽपि धने भद्र!, चिन्ताबद्धं (न्धं) वितन्वते ॥ ३ ॥ अलीकधनगर्वेण, बिह्वलीभूतमानसाः । विकारकोटीः कुर्वन्ति, यथैवैष महेश्वरः ॥ ४ ॥ तदीदृशो धनस्येह, पर्यन्तस्तात ! जन्मनि । "परलोके पुनर्घोरा, घनाद्दुः खपरम्परा ॥ ५ ॥ प्रकर्षेणोदितं माम!, येन स्यान्निश्चलं धनम् । तथा शुद्धविपाकं च, स्यात् कल्याणनिबन्ध“नम् ||६|| तत्तादृशं जगत्यत्र, किमस्ति बत कारणम् । किं वा न संभवत्येव तदिदं मे निवेद्य ॥ ७ ॥ विमर्शेनोदितं तात !, संभ
tional
For Private & Personal Use Only
धनिचेष्टा
॥ ४०६ ॥
w.jainelibrary.org