________________
उपमितौ च. ४-प्र.
॥४०५॥
"रत्नकनकादिकं धनम् , अहमस्य स्वामी, ततः कृतकृत्योऽहं, संपन्नं जन्मनः फलं, मत्तो बराक भुवनं, ततश्चेत्थं विकारबाहुलः परिप्लवतेला धनगर्वः "न लक्षयति धनस्वरूपं न चिन्तयति परिणामं नालोचयत्यायतिं न विचारयति तत्त्वं न गणयति क्षणनश्वरतामिति।" प्रकर्षः प्राह-माम! योऽसौ रागकेसरिडिम्भरूपाणां मध्ये दृष्टो मया पञ्चमो डिम्भः सोऽस्य निकटवर्ती दृश्यते, विमर्शेनोक्तं-सत्यमेतत्स एवायं । अत्रान्तरे समायातः कश्चिद्भुजङ्गः निविष्टो महेश्वरसमीपे याचितोऽनेनोत्सारकं महेश्वरः, दत्तोऽनेन, ततो रहसि स्थितस्य प्रकाशितदिक्चक्रवालं बहुविधानधैयरत्नघटितं दर्शितं तेन भुजङ्गेन तस्य महेश्वरवाणिजकस्य मुकुटं, प्रत्यभिज्ञातश्चानेन भुजङ्गः यथैष हेमपुराधिपतेबिभीषणनृपतेः पदातिर्दुष्टशीलश्च, ततो नूनं हृतमनेनेदं भविष्यति, अत्रान्तरे प्रविष्टोऽसौ रागकेसरितनयो वाणिजकशरीरे, ततस्तत्प्रतापाच्चिन्तितमनेन-भवतु नाम हृतं, तथापि ग्रहीतव्यमेवेदं मया, ततोऽभिहितोऽनेन भुजङ्गः-भद्र ! किं ते क्रियतां ?, भुजङ्गेनोक्तं-अस्योचितं मूल्यं दत्त्वा गृह्यतामिदं भवतेति, तुष्टो वाणिजकः, तोपितो मूल्येन भुजङ्गः, पलायितो वेगेन, गते च तस्मिंस्तत्पदानुसारेण समागतं बिभीषणराजबलं, लब्धा कुतश्चिद्विक्रयवार्ता, प्राप्तः सलोत्रो वाणिजकः, गृहीतः पुरत एव लोकस्य, ततश्च क्षणमात्रेण, लुप्तास्ते रत्नराशयः । बद्धोऽसावारटन्नुच्चै, राजकेन महेश्वरः ॥ १॥ इतस्ततो भयोद्धान्ता, वणिकपुत्राः सकिङ्कराः । सर्वेऽपि वान्धवैः सार्ध, नष्टास्ते पार्श्ववर्तिनः ॥ २॥ ततो विलुपसर्वस्वः, स्वजनेः परिवर्जितः । आबद्धो लोप्रकः कण्ठे, महारासभरोपितः ॥ ३ ॥ भूत्या विलि-| तसर्वाङ्गस्तस्कराकारधारकः । स राजापध्यकारीति, निन्द्यमानः पृथगजनैः ॥ ४॥ महाकलकलवानसंपूरितदिगन्तरैः । नीयमानो नृपेणोक्तैः, पुरुषैः कृतताडनैः ॥ ५॥ विद्राणवदनो दीनः, सर्वाशानाशविह्वलः । तस्मिन्नेव क्षणे दृष्टः, स ताभ्यामिभ्यवाणिजः ॥ ६॥ ॥४०५॥ प्रकर्षेणोदितं माम!, किमिदं दृष्टमद्भुतम् । किमिन्द्रजालं किं स्वप्नः, किं वा मे मतिविभ्रमः ॥ ७॥ यदस्य क्षणमात्रेण, न सा लीला |
Jain Education
a
l
For Private & Personal Use Only
(N
aw.jainelibrary.org