________________
उपमिती च. ४-प्र.
मकरध्वजादेराभाव्य
॥३९६॥
राज्ये यस्य यावान्नियोगस्तेन तावाननुष्ठेयः यस्य यावन्माहात्म्यं तेन तावदर्शनीयं यस्य यावद्यदाभाव्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा, तथाहि-यदयं लोलाक्षो राजा सहाशेषराजवृन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति, सपरिकरमेनं बन्धुभूतं मन्यन्ते, तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति, यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वलान्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतं, यत्पुनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजृम्भितं नियोगादिकं च, यत्पुनरट्टाट्टहासैहसन्ति दर्शयन्ति विब्बोकान् इदं हास्यस्य विलसितं, एवं तत्पन्नीनामपि यथाई शेषाणामपि नरपतीनां च डिम्भरूपाणां च नियोगमाहात्म्याभाव्यप्रणव्यापाराः प्रतिनियता एव द्रष्टव्याः, यत्पुनरमी जनाः शब्दादिकं भोगजातमुपभुजते सहर्षमनुकूलयन्ति कलत्राणि चुम्बन्ति तेषां वक्राणि समाश्लिष्यन्ति गात्राणि सेवन्ते मैथुनानि तत्रैवमादिके कर्मणि नैष मकरध्वजराजोऽन्यस्य नियोगं ददाति, किं तर्हि १, रत्या सह स्वयमेव कुरुते, यतोऽस्यैव तत्र है कर्मणि सामर्थ्य नान्यस्येति, तदेवं वत्स! विद्यन्ते तत्र द्वेषगजेन्द्रशोकादयः, केवलं स्वकीयं नियोगावसरं प्रतीक्षन्ते, तेन नाविर्भवन्ति, प्रकर्षेणोक्तं यद्येवं ततः किं शून्यीभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः ?, विमर्शेनोक्तं तदेवं, निवेदितमेव तुभ्यं, कामरूपिणः खल्वमी अन्तरङ्गजनाः ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्ये तथापि तन्महामोहास्थानं तवस्थमेवास्ते, इदं हि कतिचिदिनभावि मुहूर्तसुन्दरं मकरध्वजराज्य, तत्तु महामोहराज्यमाकालप्रतिष्ठमनन्तकल्पविमर्दसुन्दरं अतः का तत्र विचलनाशङ्का ?, अन्यच्च -तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरत्रैव मानवावासपुरे मकरध्वजराज्यं, केवलं चिरन्तनस्थितिपालनव्यसनितया निजपदातैरपि स्वयमेव राज्येऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं भृत्यभावमाचरति, तस्मादविचलमेव भद्र! तन्महामो
॥३९६
Jain Education
For Private
Personel Use Only
nelibrary.org