________________
उपमितौ च. ४-प्र.
॥३९४॥
मकरध्वजस्याभि
का
महामोहराजाय, ततश्चिन्तितमनेन-अये कृतपूर्व एवास्य वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावासपुरे राज्यप्रसादः, तदधुनाऽपि दीयतामस्मै मकरध्वजाय राज्यं, यतो न लङ्घनीया कदाचिदप्युचितस्थितिरस्मादृशैः प्रभुभिः, पालनीया भृत्याश्चिरन्तनसम्भावनया, ततश्चैवमवधार्य महामोहराजेनामन्त्रितास्ते सर्वेऽपि निजास्थानस्थायिनो महीपालाः यदुत-भो भोः समाकर्णयत यूयंदातव्यं मया भवचक्रनगरान्तर्भूते मानवावासपुरे मकरध्वजाय राज्यं; तत्र युष्माभिः समस्तैः सन्निहितैर्भाव्यम् अङ्गीकर्तव्योऽस्य पदातिभावो विधातव्यो राज्याभिषेको भवितव्यमाज्ञानिर्देशकारिभिरनुशीलनीयानि यथाई राज्यकार्याणि सर्वथा कर्तव्यमक्षुण्णं समस्तस्थानेषु, मयाऽपि प्रतिपत्तव्यमस्य राज्ये स्वयमेव महत्तमत्वं, तस्मात्सज्जीभवत यूयं गच्छामस्तत्रैव पुरे, ततस्तैर्भूपतिभिरवनितलविन्यस्तहस्तमस्तकैः सम|स्तैरभिहितं यदाज्ञापयति देवः, ततोऽभिहितो महामोहराजेन मकरध्वजः यथा-भद्र ! भवताऽपि राज्ये स्थितेन तत्र पुरे न हरणीयमेतेषां नरपतीनां निजं निजं यत्किमपि यथाईमाभाव्यं, द्रष्टव्याः सर्वेऽप्यमी पुरातनसम्भावनया, मकरध्वजेनोक्तं यदादिशति मोहराजः, ततः समागतास्ते सर्वेऽप्यत्र नगरे, अभिषिक्तो मानवावासपुरे राज्ये मकरध्वजः, प्रतिपन्नः शेषैर्यथाई तन्नियोगः, इतश्च योऽयं गजस्कन्धारूडो दृश्यत एष मानवावासवर्तिनि ललितपुरे लोलाक्षो नाम बहिरङ्गो राजा, ततस्तेन मकरध्वजेन ससैन्यपौरजनपदः स्वमाहात्म्येन निर्जित्य निःसारितोऽयमित्थं बहिः काननेषु, न चायमात्मानं तेन निर्जितं वराको लक्षयति, नाप्येते लोकास्तेनाभिभूतमात्मानमवबुध्यन्ते, ततो भद्रानेन व्यतिकरण तस्य मकरध्वजस्य महामोहादिपरिकरितस्य प्रतापादेते लोकाः खल्वेवं विचेष्टन्त इति, प्रकर्षणोक्तं
-सोऽधुना कुत्र मकरध्वजो वर्तते?, विमर्शः प्राह-नन्वेष सन्निहित एव सपरिकरः, सोऽमूनेवं विनाटयति, प्रकर्षः प्राह-माम! तर्हि स कस्मानोपलभ्यते, विमर्शेनोक्तं ननु निवेदितमेव मया भवतः पूर्व, जानन्येतेऽन्तरङ्गलोकाः कर्तुमन्तर्धानं समाचरन्ति परपुरुषप्रवेश,
in Educat
i onal
For Private & Personel Use Only
Harjainelibrary.org