________________
उपमितौ च. ४-अ.
॥३९३॥
वसन्तमकरध्वजयोः सख्यं
विस्फारिताक्षो निरीक्षमाणस्तल्लोकविलसितमभिहितो विमर्शेन–भद्र! एते बहिरङ्गजना यद्विषयो मया वर्णितस्तेषां महामोहादिमहीभुजांप्रतापः, प्रकर्षः प्राह-माम! केन पुनर्वृत्तान्तेन कतमस्य वा भूभुजः प्रतापेन खल्वेते लोका एवं चेष्टन्ते ?, विमर्शेनोक्तं निरूप्य - कथयामि, ततः प्रविश्य ध्यानं निश्चित्य परमार्थमभिहितमनेन–भद्र! समाकर्णय, असौ चित्तवृत्तिमहाटव्यां प्रमत्ततानदीपुलिनवर्तिनि ४ चित्तविक्षेपमहामण्डपे महामोहराजसम्बन्धिन्यां तृष्णावेदिकायां महाविष्टरे निविष्टो दृष्टस्त्वया मकरध्वजः, तस्यायं वसन्तः प्रियवयस्यको भवति, ततो लचितप्राये शिशिरे गतोऽयमासीत् तन्मूले, स्थितस्तेन सह सुखासिकया, अयं च वसन्तः कर्मपरिणाममहादेव्याः कालपरिणतेरनुचरः, ततस्तस्मै मकरध्वजाय प्रियसुहृदे निवेदितमनेन वसन्तेनात्मगुह्यं यदुत-स्वामिनीनिर्देशेन गन्तव्यमधुना मया भवचक्रनगरमध्यवर्तिनि मानवावासाभिधानेऽवान्तरपुरे तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत इति, ततः सहर्षेण मकरध्वजेनोक्तं-सखे ! वसन्त किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया | खिद्यसे, तथाहि-यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म, तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का?, वसन्तेनोक्तं वयस्य ! प्रत्युज्जीवितोऽहमधुनाऽनेन कमनीयवचनेन, इतरथा विस्मृत एवासीन्नूनं ममैष व्यतिकरः, तथाहि-यत्तचिन्तानांपन्नकार्याणां, सुहृद्विरहचिन्तया । विस्मरत्येव हस्तेऽपि गृहीतं निखिलं नृणाम् ॥११॥ तत्सुन्दरमेवेदं गच्छाम्यहमधुना भवद्भिस्तूर्णमागन्तव्यं, मकरध्वजेनोक्तं—विजयस्ते, ततः समागतोऽत्र पुरे वसन्तः, दर्शितं काननादिषु निजविलसितं, मकरध्वजेनापि विज्ञापितो विषयाभिलाषः यथा–पाल्यतां ममानुग्रहेण सा चिरन्तनी सम्भावना, चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः, ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं, तेनापि कथितं ।
॥३९३॥
Jan Education
For Private
Personel Use Only
RHainelibrary.org