SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥३९ ॥ नाभिहितः प्रकर्षः यथा-वत्स! काले तव भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपल-15 वसन्तर्तुभ्यते, तथाहि-पश्यामीषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरिकलोकानां याऽवस्था वर्तते-सन्तानकवनेषु परिमुह्यति धावति बकुलवृक्षके, विकसितमाधवीषु धृतिमेति विलुभ्यति सिन्दुवारके । पाटलपल्लवेषु न च तृप्यति नूनमशोकपादपे, चूतवनेषु याति चन्दनतरुगहनमथावगाहते ॥ १॥ इति मधुमासविकासिते रमणीयतरे द्विरेफमालिकेव । एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने ॥२॥ बहुविधमन्मथकेलिरसा दोलारमणसहेन । एते सुरतपराश्च गुरुतरमधुपानमदेन ॥ ३ ॥ अन्यच्च-विकसिते सहकारवने रतः, कुरुबकस्तबकेषु च लम्पटः । मलयमारुतलोलतया वने, सततमेति न याति गृहे जनः॥४॥ इदमहो पुरलोकशताकुलं, प्रवरचूतवना वलिमध्यगम् । विलसतीह सुरासवपायिनां, ननु विलोकय भद्र ! कदम्बकम् ॥ ५॥ मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविलौ-18 है कितैः । प्रियतमाधरमृष्टविदेशनैश्चकषरत्नमयूखविराजितैः ॥ ६॥ सुरभिनीरजगन्धसुवासितैः, सुवनितावदनाम्बुरुहार्पितैः । विविधमद्य रसैर्मुखपेशलैः, कृतमिदं तदहो मदनिर्भरम् ॥ ७॥ तथाहि-पश्य वत्स! यदत्रापानकेष्वधुना वर्तते-पतन्ति पादेषु पठन्ति मादिताः, पिबन्ति मद्यानि रणन्ति गायनाः । रसन्ति वक्राम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः ॥ ८॥ वदन्ति गुह्यानि सशब्दतालकं, मदेन नृत्यन्ति लुद्धन्ति चापरे । विघूर्णमानैर्नयनैस्तथापरे, मृदङ्गवंशध्वनिना विकुर्वते ॥ ९॥ स्वपूर्वजोल्लासनगर्वनिर्भरा, धनानि यच्छ|न्ति जनाय चापरे । भ्रमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् ॥ १०॥ एवं च यावद्दर्शयति प्रकर्षस्य विमर्शस्तदापानकं तावन्निपतिता माधवीलतावितानमण्डपे कुवलयदलविलासलासिनी प्रकर्षस्य दृष्टिः, अभिहितमनेन-मामेदमपरमापानकमेतस्मात्सविशेषतरं विजृम्भते, विमर्शनाभिहितं ननु सुलभाऽत्र भवचक्रनगरे वसन्तसमयागमप्रमोदितानां नागरकलोकानामापानप ९. ॥ Jain Education D ata For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy