________________
या उपमितौयनाः केचित्केचिदातोद्यवादकाः । वादित्ररूपतामेव, भजन्ते भक्तितोऽपरे ॥ २८ ॥ किं बहुना?-महामोहनरेन्द्राद्याः, सर्वेऽमी तात! कमेपरिच. ४-प्र. भूभुजः । सर्वथा हेतुतां यान्ति, तत्र संसारनाटके ॥ २९ ॥ स तावन्मात्रसंतुष्टः, सपत्नीको नराधिपः । तदेव नाटकं पश्यन्नित्यमास्ते 31
णाममोहनिराकुलः ॥ ३० ॥ अन्यच्च-एतेषां तावदस्त्येव, सर्वेषां स प्रभुर्नृपः । अन्येषामपि स स्वामी, प्रायेणान्तरभूभुजाम् ॥ ३१ ।। किं
राजयो॥३८८॥ बहुना?-स सर्वसमुदायात्मा, सुन्दरेतरनायकः । अयं तदेकदेशात्मा, तदादेशविधायकः ॥ ३२ ॥ तथाहि-येऽन्तरङ्गजनाः केचि-1
राभाव्यं द्विद्यन्ते सुन्दरेतराः । स कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः ॥ ३३ ॥ यावन्ति चान्तरजाणि, निर्वृति नगरी विना । पुराणि तेषु स स्वामी, बहिरङ्गेषु भावतः ॥ ३४ ॥ अयं पुनर्महामोहो, यावन्तोऽत्र विलोकिताः । भवता भूभुजः स्वामी, तदादेशेन तावताम् ॥ ३५॥ यदेष निजवीर्येण, किश्चिदर्जयते धनम् । समर्पयति तत्तस्य, निःशेष नतमस्तकः ॥ ३६॥ अनेनोपार्जितस्योथैर्धनस्य विनियोजनम् ।। स राजा कुरुते नित्यं, सुन्दरेतरवस्तुषु ॥ ३७ ॥ अयं हि विग्रहारूढः, सदाऽऽस्ते विजिगीषया । स तु भोगपरो राजा, न जानात्येव विग्रहम् ॥ ३८ ॥ एवं च स्थिते-एष वत्स! करोत्याज्ञां, भक्तिनिर्भरमानसः । तस्य किं तु ततो भिन्नं, नात्मानं मन्यते नृपः॥ ३९॥ अन्यच्च-यदृष्टं भवता पूर्वे, महामोहपुरद्वयम् । तत्कर्मपरिणामेन, भटभुक्क्याऽस्य योजितम् ॥ ४०॥ अतः पुरद्वये तत्र, सैन्यमस्य | सुभक्तिकम् । तथाऽटव्यां च निःशेषमास्ते विग्रहतत्परम् ॥ ४१ ॥ प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् । राज्यं ? किंवाऽन्यसम्बन्धि, गृहीतं बलवत्तया ॥ ४२ ॥ विमर्शेनोदितं वत्स!, नानयोः क्रमपूर्वकम् । परसत्कमिदं राज्यं, हठादाभ्यां विनिर्जितम् ॥ ४३ ।। यतः-जीवः सकर्मको यस्ते, बहिरङ्गजनस्तथा । संसारिजीव इत्येवं, मया पूर्व निवेदितः ॥४४॥ तस्यैषा भुज्यते सर्वा, चित्तवृत्ति- ॥३८८॥ महाटवी । वीर्येण तं बहिष्कृत्य, स्वीकृताऽऽभ्यां न संशयः ॥ ४५ ॥ प्रकर्षणोक्तम्-कियान् कालो गृहीताया, वर्तते माम! मे वद ।।
4ॐॐॐ
Jain Education
For Private
Personel Use Only