________________
उपमितौ
च. ४-प्र.
॥ ३८७ ॥
हिमेन शीता च तडागपद्धतिः । जनो महामोहमहत्तमाज्ञया, तथापि तां धर्मधियाऽवगाहते ॥ ९ ॥ अन्यश्च — अयं हि लङ्घितप्रायो, वर्तते शिशिरोऽधुना । ततः षण्मासमात्रेऽपि किमु त्रस्यति मामकः १ ॥ १० ॥ गम्यतां भवचक्रेऽतो, ममानुग्रहकाम्यया । मामेन परतो यत्ते, रोचते तत्करिष्यते ॥ ११ ॥ अनिवर्तकनिर्बन्धमेवं विज्ञाय भावतः । ततस्तदनुरोधेन, विमर्शो गन्तुमुद्यतः ॥ १२ ॥ अथ मिथ्यानिवेशादिस्यन्दनत्रातसुन्दरम् । ममत्वादिगजस्तोमगलगर्जितबन्धुरम् ॥ १३ ॥ अज्ञानादिमहाश्वीयहेषारवमनोहरम् । दैन्यचापललौल्यादिपादातपरिपूरितम् ॥ १४ ॥ महामोहनरेन्द्रस्य चतुरङ्गं महाबलम् । अपसृत्य ततः स्थानात्ताभ्यां सर्वं विलोकितम् ॥ १५ ॥ ततो निर्णीतमार्गेण, हृष्टौ स्वस्त्रीयमातुलौ । गच्छतस्तत्पुरं तूर्णमविच्छिन्नप्रयाणकैः ॥ १६ ॥ मार्गोत्सारणकामेन, मातुलं प्रति भाषितम् । ततः प्रकर्षसंज्ञेन, तदेवं पथि गच्छता ॥ १७ ॥ माम ! यः श्रूयते लोके, सार्वभौमो महीपतिः । स कर्मपरिणामाख्यः, प्रतापाक्रा
राजकः ॥ १८ ॥ तस्य सम्बन्धिनीमाज्ञां, महामोहनराधिपः । किमेष कुरुते ! किं वा, नेति मे संशयोऽधुना ॥ १९ ॥ विमर्शः प्राह— नैवास्ति, भद्र! भेदः परस्परम् । अनेन परमार्थेन, स हि ज्येष्ठः सहोदरः ॥ २० ॥ अयं पुनः कनिष्ठोऽस्यां महाटव्यां व्यव स्थितः । यतोऽयं चरटप्रायो, महामोहनराधिपः ॥ २१ ॥ ये दृष्टाः केचिदस्याप्रे, भवताऽत्र महीभुजः । समस्ता अपि विज्ञेयास्ते तस्यापि पदातयः ॥ २२ ॥ केवलं स कर्मपरिणामाख्यः, सुन्दराणीतराणि च । कार्याणि कुरुते लोके, प्रकृत्या सर्वदेहिनाम् ॥ २३ ॥ अयं तु सर्वलोकानां महामोहनरेश्वरः । करोत्यसुन्दराण्येव, कार्याणि ननु सर्वदा ॥ २४ ॥ अन्यच – अयं जिगीषुर्भूपाल:, स राजा नाटकप्रियः । एते भूपा निषेवन्ते, महामोहमतः सदा ॥ २५ ॥ किं तु लोके महाराजो, यतोऽस्यापि महत्तमः । स कर्मपरिणामाख्यो, भ्रातेति परिकीर्तितः ॥ २६ ॥ तस्मादेते महीपालास्तस्यापि पुरतः सदा । गत्वा गत्वा प्रकुर्वन्ति, नाटकं हर्षवृद्धये ॥ २७ ॥ भवन्ति गा
Jain Education Internation
For Private & Personal Use Only
कर्मपरि
णाममोहराजयो
राभाव्यं
॥ ३८७ ॥
Painelibrary.org