________________
संसारिजी| वस्य मनोरथमाला
उपमितौ *"पावासाः सप्तभूमिकादयो भूयांसः प्रासादाः, तथा करिष्यन्ति मे भवने सततं प्रकाशं मरकतेन्द्रनीलमहानीलकर्केतनपद्मरागवनवैडूर्येन्दु- पीठबन्धः "कान्तसूर्यकान्तचूडामणिपुष्परागादिरत्नराशयः, तथा विराजिष्यन्ते मम मन्दिरे समन्तात्पीतोद्योतमादर्शयन्तो हाटककूटाः, तथा भविष्यति
|"मम सदनेऽनन्ततया हिरण्यधान्यकुप्यादिकमनास्थास्थानम् , तथा नन्दयिष्यन्ति मे हृदयं मुकुटाङ्गदकुण्डलपालम्बादयो भूषणविशेषाः, तथा ॥३५॥
“जनयिष्यन्ति मे चित्तरति चीनांशुकपट्टांशुकदेवांशुकप्रभृतयो वस्त्रविस्ताराः, तथा वर्द्धयिष्यन्ति मे मानसानन्दं मणिकनकविचित्रभक्तिम"ण्डितराजतक्रीडापर्वतकलितानि दीर्घिकागुजालिकायनवापिकाद्यनेकविधजलाशयमनोहराणि बकुलपुन्नागनागाशोकचम्पकप्रभृतिविविध"विटपिजातिविस्ताराणि पञ्चवर्णगन्धबन्धुरकुसुमभरानम्रशाखापर्यन्तानि कुमुदकोकनदादिजलरुहचारूणि भ्रमद्भगमकारसारतारोपगीतानि "प्रासादसमीपवर्तीनि लीलोपवनानि, प्रमोदयिष्यन्ति मां निर्जितदिनकरस्यन्दनसौन्दर्या रथसङ्घाताः, हर्षयिष्यन्ति ममा(माम)पहस्तितसुरा"धिपहस्तिमाहात्म्यानां वरकरिणां कोटयः, तोषयिष्यन्ति मामधरितविबुधपतिहरिरया हयकोटिकोटयः, समुल्लासयिष्यन्ति मे मनसि प्रमदा"तिरेकं पुरतो धावन्तोऽनुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्यन्तसंहताः सङ्ख्यातीताः पदातिसङ्घाताः, रजयिष्यन्ति "मे प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् , भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः, तत्रयिष्यन्ति मे "समस्तकार्याणि प्रज्ञाऽवज्ञातसुरमत्रिणोऽमात्यमहत्तमाः, तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् । पुनश्च चिन्तयति-ततोऽहमतिसमृ"द्धतया निश्चिन्ततया च परिपूर्णसमप्रसामग्रीकः करिष्यामि विधिना कुटीप्रावेशिकं रसायनं, ततस्तदुपयोगात् संपत्स्यते मे वलीपलितखा| "लित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेषविषयोपभोगभाजनं महाप्राणं शरीरं, तदिदं लब्धभिक्षस्यै
१ उपसित पा. २ महामात्य. प्र.
KARATASAARI
Jan Educatio
n
al
For Private
Personel Use Only