SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उपमितीष्टादिभिस्ताडयिष्यन्ति, ततोऽहं महामुद्रमादाय तानेकैकं चूर्णयिष्यामि, क यान्ति दृष्टास्ते मया पापाः ? इत्येवमलीकविकल्पजालमालाकुपीठबन्धः लीकृतमानसः केवलं प्रतिक्षणं रौद्रध्यानमापूरयति, न पुनरसौ वराकः प्रतिगृहमटाट्यमानोऽपि किश्चिद्भोजनजातमासादयति, प्रत्युत हृद यखेदमात्मनोऽनन्तगुणं विधत्ते, अथ कथञ्चिदैववशात्कदन्नलेशमात्रमाप्नोति तदा महाराज्याभिषेकमिवासाद्य हर्षातिरेकाज्जगदप्यात्मनोऽध॥३४॥ स्तान्मन्यते तदेतत्सर्वमत्रापि जीवे योजनीयम् , तत्रास्य संसारेऽहर्निशं पर्यटतो य एते शब्दादयो विषया यच्चैतद्वन्धुवर्गधनकनकादिकं यच्चान्यदपि क्रीडाविकथादिकं संसारकारणं तद्गुद्धिहेतुतया रागादिभावरोगकारणत्वात् कर्मसञ्चयरूपमहाऽजीर्णनिमित्तत्वाच्च कदन्नं वि| ज्ञेयं, ततश्चायमपि महामोहप्रस्तो जीवश्चिन्तयति, यदुत-"परिणेष्याम्यहमनल्पयोषितः ताश्च रूपेण पराजेष्यन्ति त्रिभुवनं सौभाग्येनाभि- संसारिजी"मुखयिष्यन्ति मकरध्वजं विलासैः क्षोभयिष्यन्ति मुनिहृदयानि कलाभिरुपहसिष्यन्ति बृहस्पति विज्ञानेन रजयिष्यन्ति अतिदुर्विदग्धज"नचित्तानीति, तासां चाहं भविष्यामि सुतरां हृदयवल्लभः न सहिष्यन्ते ताः परपुरुषगन्धमपि न लवयिष्यन्ति मम कदाचिदाज्ञां करि रथमाला | "ध्यन्ति मे सततं चित्तानन्दातिरेकं प्रसादयिष्यन्ति मां दर्शितकृत्रिमकोपविकारं विधास्यन्ति कामोत्कोचकरणपटूनि चाटुशतानि प्रकटयि| "ध्यन्तीङ्गिताकारैर्मे हृदयसद्भावं हरिष्यन्ति नानाविकारबिब्बोकैमें मानसं हनिष्यन्ति मामनवरतं ताः परस्परेय॑या साभिलाषं कटाक्षविशे-| "पैरिति, तथा भविष्यति मे विनीतो दक्षः शुचिः सुवेषोऽवसरज्ञो हृदयग्राही मय्यनुरक्तः समस्तोपचारकुशलः शौयौदार्यसम्पन्नः सकल"कलाकौशलोपेतः प्रतिपत्तिनिपुणोऽपहसितशक्रपरिकरः परिकर इति, तथा भविष्यन्ति मे निजयशःशुभ्रसुधाधवलतया स्वचित्तसन्निभा "अत्युच्चतया च हिमगिरिसङ्काशा विचित्रचित्रोज्वलवितानमालोपशोभिताः शालभजिकाद्यनेकनयनानन्दकारिरूपरचनाकलिता बहुविध-18 "शालाविशाला नानाप्रकारप्रकोष्ठविन्यासा अतिविस्तीर्णानेकाकारास्थानमण्डपपरिकरिताः समन्तान्महाप्राकारपरिक्षिप्ता अपहसितविबुधाधि-18॥ ३४॥ १ नानाकार. प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy