SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. मोहनाशका: ॥३८५॥ खोद्भवस्तेषां ?, निर्द्वन्द्वा सुखपद्धतिः ॥६४३॥ केवलं तादृशास्तात!, बहिरङ्गेषु देहिषु । अत्यन्तविरला लोकास्तेनेदं गीयते जनैः ॥६४४॥ शैले शैले न माणिक्य, मौक्तिकं न गजे गजे। साधवो न हि सर्वत्र, चन्दनं न वने वने ।। ६४५ ॥ तदेवं कथितं तुभ्यं, सन्ति ते बाह्यदेहिनः । केवलं विरला राज्ञां, येऽमीषां दर्पनाशिनः ॥ ६४६ ॥ प्रकर्षः प्राह ते माम!, कुत्र तिष्ठन्ति देहिनः । यैरीदृशोऽपि विक्षिप्तः, शत्रुवर्गो महात्मभिः ? ॥६४७॥ विमर्शेनाभिहितं-वत्स! समाकर्णय साम्प्रतं श्रुतं मयाऽऽप्तजनसकाशात्पूर्व यदुत-अस्ति समस्तवृत्तान्तसन्तानाधारविस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमितलं भवचक्रं नाम नगरं, अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहून्यवान्तरपुराणि, सन्ति बहुतराः पाटकाः, संभवन्ति बहुतमा भवनपतयः, संभाव्यन्ते भूयांसि देवकुलानि, सङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रतिवसन्ति, ततोऽहमेवं वितर्कयामि यदुत-विद्यन्ते तत्र भवचक्रेनगरे बहिरङ्गलोकाः यैरेष महामोहनरेन्द्रप्रमुखः शत्रुवर्गः स्ववीर्येण विक्षिप्त इति ॥ प्रकर्षः प्राह-माम! तत् किमन्तरङ्गं तन्नगरं ? किं वा बहिरङ्गमिति ?, विमर्शेनोक्तं–तात! न शक्यते & तदेकपक्षनिक्षेपेणावधारयितुं यथाऽन्तरङ्गं यदिवा बहिरङ्गमिति, यस्मात्तत्र यथा बहिरङ्गजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते, यतोऽमीषां प्रतिपक्षभूतोऽसौ सन्तोषस्तत्रैव नगरे श्रूयते, ततोऽमीभिरनुविद्धं समस्तं नगरं, प्रकर्षणोक्तं-नन्वमी अत्र वर्तमानाः कथं तत्र विद्येरन् ?, विमर्शेनोक्तं–तात! योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते, न कश्चिद्विरोधः, यतो जानन्ति यथेष्टबहुविधरूपकरणं कुर्वन्ति परपुरप्रवेशं समाचरन्ति चान्तर्धानं पुनः प्रकटीभवन्ति यथेष्टस्थानेषु, ततोऽचिन्त्यमाहात्म्यातिशयाः खल्वेते राजानः, ते यथाकामचारितया कुत्र न विद्येरन् ?, तस्मादुभयलोकाधारतयोभयरूपमेवैतद्भद्र ! भवचक्रं नगरं ।। प्रकर्षेणोक्तं-तर्हि यदि तत्र सन्तोषो वर्तते ते चामीषां भूभुजां दर्पोद्दलनकारिणो महात्मानो लोका विद्यन्ते ततो ॥३८५॥ उ. भ. ३३ Jain Education International For Private & Personel Use Only Rajainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy