________________
उपमितौ च. ४-प्र.
मोहनाशका:
॥३८५॥
खोद्भवस्तेषां ?, निर्द्वन्द्वा सुखपद्धतिः ॥६४३॥ केवलं तादृशास्तात!, बहिरङ्गेषु देहिषु । अत्यन्तविरला लोकास्तेनेदं गीयते जनैः ॥६४४॥ शैले शैले न माणिक्य, मौक्तिकं न गजे गजे। साधवो न हि सर्वत्र, चन्दनं न वने वने ।। ६४५ ॥ तदेवं कथितं तुभ्यं, सन्ति ते बाह्यदेहिनः । केवलं विरला राज्ञां, येऽमीषां दर्पनाशिनः ॥ ६४६ ॥ प्रकर्षः प्राह ते माम!, कुत्र तिष्ठन्ति देहिनः । यैरीदृशोऽपि विक्षिप्तः, शत्रुवर्गो महात्मभिः ? ॥६४७॥ विमर्शेनाभिहितं-वत्स! समाकर्णय साम्प्रतं श्रुतं मयाऽऽप्तजनसकाशात्पूर्व यदुत-अस्ति समस्तवृत्तान्तसन्तानाधारविस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमितलं भवचक्रं नाम नगरं, अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहून्यवान्तरपुराणि, सन्ति बहुतराः पाटकाः, संभवन्ति बहुतमा भवनपतयः, संभाव्यन्ते भूयांसि देवकुलानि, सङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रतिवसन्ति, ततोऽहमेवं वितर्कयामि यदुत-विद्यन्ते तत्र भवचक्रेनगरे बहिरङ्गलोकाः यैरेष महामोहनरेन्द्रप्रमुखः
शत्रुवर्गः स्ववीर्येण विक्षिप्त इति ॥ प्रकर्षः प्राह-माम! तत् किमन्तरङ्गं तन्नगरं ? किं वा बहिरङ्गमिति ?, विमर्शेनोक्तं–तात! न शक्यते & तदेकपक्षनिक्षेपेणावधारयितुं यथाऽन्तरङ्गं यदिवा बहिरङ्गमिति, यस्मात्तत्र यथा बहिरङ्गजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते,
यतोऽमीषां प्रतिपक्षभूतोऽसौ सन्तोषस्तत्रैव नगरे श्रूयते, ततोऽमीभिरनुविद्धं समस्तं नगरं, प्रकर्षणोक्तं-नन्वमी अत्र वर्तमानाः कथं तत्र विद्येरन् ?, विमर्शेनोक्तं–तात! योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते, न कश्चिद्विरोधः, यतो जानन्ति यथेष्टबहुविधरूपकरणं कुर्वन्ति परपुरप्रवेशं समाचरन्ति चान्तर्धानं पुनः प्रकटीभवन्ति यथेष्टस्थानेषु, ततोऽचिन्त्यमाहात्म्यातिशयाः खल्वेते राजानः, ते यथाकामचारितया कुत्र न विद्येरन् ?, तस्मादुभयलोकाधारतयोभयरूपमेवैतद्भद्र ! भवचक्रं नगरं ।। प्रकर्षेणोक्तं-तर्हि यदि तत्र सन्तोषो वर्तते ते चामीषां भूभुजां दर्पोद्दलनकारिणो महात्मानो लोका विद्यन्ते ततो
॥३८५॥
उ. भ. ३३
Jain Education International
For Private & Personel Use Only
Rajainelibrary.org